SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अङ्गानां क्रियानां च स्वे च ते गुणाश्च, तैस्तद्वाचिभिः शब्दरित्यर्थः । अत्र स्वशब्दोपादानान्तरलब्धादीनां गुणानां नामसाधारणतामाह-- तेन सुन्दरत्वादीनां गुणत्वेऽपि साधारणत्वात् सुन्दरादिपदैरिति पृथनिर्देशः । उपमीयन्ते एभिरुपमानानि मगलोचनादीनि, तैः। सुन्दर आदिर्येषां तानि मृगलोचनादीनि, तैः सुन्दर आदिर्येषां तानि सुन्दरादीनि पदानि, तैश्च एतैः त्रिभिरङ्गान्यवयवालोचनादीनि क्रियाः गमनादयश्च । स्त्रिया अभिधाकृते अभिधानयोजनाय विशेष्यन्ते विशेषणयक्तानि क्रियन्ते। स्वगणविशेषितरर्नामानि यथा--अलसमीक्षणमालोकोऽस्या अलसेक्षणा । अवेक्षणलक्षणायाः क्रियाया अलसत्वमसाधारणः स्वकीयो गुण एव । मधुरवचना ललितगमनेत्यादयः । उपमानविशेषितैरङ्गैर्नामानि यथा-मगाक्षिणी इव अक्षिणी अस्या मृगाक्षी, उष्ट्रमुखादित्वादुपमानभूताक्षिशब्दस्य बहुव्रीही लोपः । अत्र मृगाक्षिलक्षणेनोपमानेनाक्षिलक्षणमङ्गं विशेषितम । एवं सर्वत्र इन्दुवन्मुखमस्या इन्दुमुखी, कमलानना, इत्यादीनि बहूनि नामानि सन्ति । तानि नाममालाया ज्ञेयानीति ॥छ।। इति श्री तपागच्छाधिनायकपातसाहि श्री अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमक्तिकारक भट्रारक श्री ४ श्री हीरविजयसूरीश्वरशिष्यपण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे शब्दसिद्धिप्रतानान्तर्गत. यौगिकाह्वानमालिकास्तबकोद्योतको द्वितीय प्रसरः ॥छ।। का. क. एवं परावृत्तिसहान् शब्दानौचित्यतो बुधः। समासव्याससिद्ध्यर्थ परावृत्य प्रयोजयेत् ।।७०।। स्तबकोऽयं निगदसिद्धः। इति श्रीजिनदत्तसूरि. शब्दसिद्धिप्रताने द्वितीये यौगिकनाममालास्तबको द्वितीयः । १. तानि....आदिर्येषाम्-इदं पा.म. पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy