SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६८ काव्यकल्पसतावृत्तिः ॥२.३॥ अथानुप्रासोपायमाह का. क. अनप्रासस्य सिद्ध्यर्थं शब्दान् साधारणान् ब्रुवे । मण्डितं मण्डलैः पूरैः परितं सङ कुलं कुलैः ।।७१।। राजितं राजिभिर्युक्तं पङक्तिभिः पटलः पटुम् ।। निचितं निचयैरोघेर्मोघं सञ्चयसञ्चितम् ॥७२।। पुजेन मंजुजातेन सुजातं वृन्दसुन्दरम् । कदम्बचुम्बितं सार्थकृतार्थ सगुणं गुणैः ॥७३॥ राशिभिर्भासितं वातैः क्रान्तं संहतिसंहतम् । सोमं स्तोमैः ससङ घट्ट सधैः प्रीतप्रजं व्रजैः ।।७४।। स्फुरन्मुदं समुदयैः प्रकरेण प्रियङ्करम् । ततमानं वितानेन निकुरम्बसडम्बरम् ॥७५।। निकरेण प्रीतिकरं निवहप्रवहत्प्रभम् । निकायेन सुकायश्रीविसरप्रसरद्रसम् ॥७६।। यूथेन ग्रथितं जालजटालं पूगसङ गतम् । सन्दोहसप्ररोहश्रि समुदायमदायितम् ।।७७।। समूहसुमहद्व्यूहमहितं वारधारकम् । समाजराजितं चक्राऽञ्चितमुत्करमुत्करैः ॥७८॥ चक्रवालविशालश्रीसङघातघटितोदयम् । धोरणीधारणं श्रेणीशरणं कलमालिभिः ।।७९।। म. टी. अथानप्रासोपायमाह--अत्र स्तबके केचन शब्दाः ससमासाः केचन समासरहिताश्च बोध्याः ।' मण्डितमिति मण्डितं, मण्डलैरित्यत आरभ्य सङ्घातघटितोदयं यावत् । समूहवाचकशब्दा ज्ञेयाः। धोरणीधारणमित्यत आरभ्यावलिशालितेति यावत् । श्रेणिपङिक्तवाचकशब्दास्तथैवानुप्राससाधका ज्ञेयाः। तत्रालिभिः श्रेणिभः, कलंमनो-- का.क. ततिभिर्वतितं मालामालितावलिशालितम् । विशालशालितं कीर्णविस्तीर्ण भूरिपूरितम् ॥८॥ भूयिष्ठपुष्ठमुद्भान्तादभ्र बहुलतावहम् । प्रभूतभूतं प्रचुरप्रचारं कलपुष्कलम् ॥८१।। १. ससमासाः . . . .ज्ञेयाः-इदं पा.म. पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy