SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः चारुप्रचारहारिस्फारितरुचिररुचिबन्धुराबन्धाः । शोभनशोभं सुषमसममधुरधुरोत्तमतमाग्रिमग्राह याः ।।८।। अर्हप्रबहसुन्दरतरसत्तमतमनवप्रवराः । पुण्यवरेण्यग्रामग्रामण्यो काममभिरामः ॥८३।। वल्गद्वल्गुमनोहरतरसम्यग्रम्यमञ्जुरुचिपुजाः । दृष्टप्रकृष्ट कामं वामाग्ययाग्रा सुखप्रमुखाः ।।८४॥ मञ्जुलोज्ज्वलसोद्रेकप्रवेकानुत्तमक्रमाः । निवेशपेशलप्राग्रजाग्रत्प्राग्रहराग्रहाः ।।८५॥ नम्रकनं काम्यकामवर्यधुर्यप्रियक्रियाः । साधुशुद्धं कान्ततान्तस्पष्टपृष्टवराऽन्तराः ॥८६।। मुख्यसंख्यरुच्यरुचि सम्यक्सौम्यस्फुरत्पराः । हृद्यविद्योतिसौभाग्यभाग्यमाधुर्यधुर्यकाः ।।८७॥ प्रधानसन्धानज्येष्ठश्रेष्ठौ मनोरमक्रमः । पराय॑परद्धिर्जात्य जातोऽनुत्तरसन्तरत् ।।८८।। सरलाग्रेसरो वर्गाग्रणीरन्योन्यधन्यभाः । अकनीयः कमनीयः पुरोगतपुरोगकाः ।।८९।। म. टी. हरं विशालशालितं कीर्णविस्तीर्णमिति शब्दौ पूर्णवाचकौ । भूरिपूरितमित्यत आरभ्य बहुलतावहमिति यावत् प्रचुरार्थवाचकशब्दा अनुप्राससाधका ज्ञेयाः । तत्र प्रभूतानि भूतानि यत्र तत्प्रभूतभूतं, अदभ्रं बहुलमिति । चारुप्रचारेत्यत आरम्भ्य पुरोगतपुरोगकं यावत् मनोहरवाचकाः शब्दा अनुप्राससाधका ज्ञेया इति । का. क. अथ श्वेतादिवर्णा: धवलप्रबलो लक्ष्यवलक्षो गौरगौरवः । सितस्मितशुभादभ्रकेतकश्वेतकान्तयः ।।९०।। पलाण्डुपाण्डुरहरहरिणौ गर्जदर्जुनः । दन्तावदातो विसविशदः शुक्लांशुशुक्लता ॥९१।। अरुणारुणदृक्कोणशोणपाटलपाटलाः । पक्वाताम्ममाञ्जिष्ठवरिष्ठौ रोहिरोहितः। उद्रिक्तरक्तलोहितलोहितादभ्रबभ्रवः ॥९२।। कडारस्फारहारिद्रहारिरुक्भद्रकद्रवः ।। बभ्र वभ्रषङ्गपिङ्गो भृशं पिशङ्गमङ्गकम् ॥९३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy