________________
७०
पिपि कपिकपिलहरिहरितपिञ्जरपिङ्गलकलाभाः । उन्मीलन्नीलश्री: परितो हरितो निकामतः श्यामः || ९४ ||
कृष्णकृष्णतालकाल मे चकिकण्ठमेचकाः ।
श्यामा श्यामलमसिवदसितः शितिरुस्थितिः ।। ९५ ।।
शबलप्रबलप्रभः ।
सारङ्गरङ्गदङ्ग श्री: प्रसरद् धूसरो धूम्रधूमलो धूक ।। ९६ ।। पुरः कर्बु रकिर्मीरकिरणः कलचित्रलः । कपोतकान्तिकल्माष मयूखौ चित्रचित्ररुक् ।। ९७ ।। निर्वयभ्यर्णसन्नद्धासन्नसन्निधिसन्धयः । संदेशपेशल श्रीमत् ससीमविकटान्तिकाः । । ९८ ।।
Jain Education International
सन्निधानगुणाधानसन्निकर्ष प्रकर्षता । अभ्यग्रमभ्यग्रहणमुपकण्ठविकुण्ठताः ॥ ९९ ॥
अभ्यासमभ्यासमता निकटप्रकटस्थितिः । उपान्तकान्तसम्भ्रान्तपरिक्रीडत्सनीडता ॥ १०० ॥
सवेशसन्निवेशश्री: सविधो विविधोदयः । शश्वत्पार्श्वसन्निकृष्टोत्कृष्टसमीपदीप्रताः ॥ १०१ ॥
समर्यादस्वमर्यादो हिताव्ययहिताशयः । अपदान्तपदान्तश्रीरनन्तरपरम्परः ।। १०२ ।।
संसक्तव्यक्तो नेदिष्ठ दिष्टोऽथ दूरपूरतः । विप्रकृष्टः प्रकृष्टश्च दवीयः पदवी तथा ॥ १०३ ॥ दविष्ठविनिविष्टोऽथ धर्मकर्मणि शर्मभाक् । सतत्त्वसत्त्वसहजसहचारीति नीतिमान् ॥ १०४ ॥
म. टी. अथ श्वेतवर्णवाचक शब्दा धवलाद्या शुक्लतापर्यन्ता अनुप्राससाधकास्तत्र । पलाण्डु कन्दविशेष:, बिसं कमलनालम् । अथ रक्तवर्णवाचकशब्दा अरुणाद्याः पिङ्गलकलाभपर्यन्ता अनुप्राससाधकाः । तत्र कडारेत्यारभ्य पिङ्गलकलाभान्ताः । पीतवर्णवाचकास्ते रक्तवर्णे कथं समानीता इति चेदुच्यते । छन्दः सिद्धिप्रतानपञ्चमस्तबके कविसमयये पीतारुणयोरैक्यप्रतिपादनात् । तथा लोहिताद्रक्ताददभ्रः प्रचुरो बभ्रुः पीतः ।
काव्यकल्पलताबत्ति :
अथ श्यामवर्णवाचकशब्दा उन्मीलन्नीलेत्यारभ्य शितिरुक् स्थितिपर्यन्ता अनुप्राससाधकाः । अत्रापि प्राग्वत् नीलश्यामयोरैक्यमिति सारङ्गेत्यारभ्य चित्ररुपर्यन्ताः, शबलवर्णवाचका नानाविधवर्णवाचका इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org