________________
काव्यकल्पलतावृत्तिः
७१
का.क.
अथ समीपवाचकशब्दा निर्वाभ्यर्णेत्यारभ्य दिष्टपर्यन्ता अनुप्राससाधकाः । तत्र सेवेशेति आसन्नसन्निवेशस्थानश्री: , अथ दूरादयो दविष्ठान्ता दूरार्थवाचका शब्दाः । धर्माद्याः मुक्तान्ताः धर्मवाचका: आकुताद्या आशयान्ताः ।
रूपस्वरूपस्वभावभावसंसिद्धिसिद्धयः । निसर्गसर्गप्रकृतिकृतितो लक्षलक्षणाः ॥१०५।। शीलानश्लीलशीलोऽथ स्वस्थावस्थादशावशात् । रतिस्थितिरथो स्नेहासन्देहाप्रीतिरीतितः ।।१०६।। प्रेमस्थेमाथ दाक्षिण्यदाक्षानुकूलमूलतः । सम्भ्रमभ्रमसम्पत्तिर्कनिःशङ्कसङ कराः ।।१००।। अवधाननिधानश्रीः समाधानविधानतः । प्रणिधानसुधाधामसमाधिर्व्याधिबाधिनी ।।१०८।। धर्मशर्मकरः पुण्यनैपुण्यो वृषनिस्तृषः । श्रेयः प्रेयो भागधेयः सन्धेयः सुकृत कृतम् ।।१०९।। नूतनाकूतसंमतमतता भावभावना । स्वयमाशयातिशयादथ विस्तारतारता ।।११०।। प्रपञ्चसञ्चनाव्यासविन्यासाभोगभोगता । नवच्छायोच्छ्यारोहरोहच्चयसमुच्छ्याः ॥१११।। अथोदग्रसमग्रत्वमुच्छ्रितस्थितसंश्रितः । रङ्गत्तुङ्गचञ्चदुच्चनुन्नोन्नतधुरोद्धराः ॥११२।। समस्तन्यस्तसकलसकलोद्गर्वसर्वता । नूनमन्यूननिखिलविलसद्विश्वविश्वता ।।११३।। अखण्डमण्डनाव्यग्रसमग्राशेषशेखराः । अखिलानाविलः शुद्धमुद्धतं रुचिरं शुचिः ।।११४।। पवित्रचित्रताभावपावनः पूतनतनः । ज्वलदुज्ज्वलविमलोत्तमौ मिलदनाविलः ।।११५।। नवीनपीनसद्यस्कहृद्यतानूतनूतनाः । प्रत्यग्राव्यग्रताभव्यनव्यत्वाभिनवस्तथा ।।११६।। निकामरामातिमात्रगात्रतैकान्तकान्तता । एवं सामान्यशब्दानां ज्ञेयाऽनुप्रासवासना ।।११७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org