________________
काव्यकल्पलतावृत्तिः
अथो कथादिके राजवर्णनाद्युपयोगिनः । अनुप्रासस्य सिद्ध्यर्थं शब्दान् कतिचन ब्रुवे ।।११८।। महादेवमहाशर्वगों हरमनोहरः । उग्रोऽग्रो गिरिः गिरिशो वर्गो भर्गोत्तमक्रमः ।।११९।। धराधीशानीशानश्रीभवप्रवरवैभवः ।। विना पिनाकिना चेतो वहि नरेताः शिवः शिवः ॥१२०।। शम्भुनिशुम्भनो रुद्ररौद्रो निःशङ कशङ करः । मर्दी कपर्दी भूपालिकपाली भीमभीमभाः ।।१२१।। स्थाणुः स्थाणुर्वामदेव वामो भैरवभैरवः । खण्डपरशुरखण्डश्रीनिस्तन्द्रश्चन्द्रमौलिवत् ।।१२२।। जितारातिः पुरारातिः सव्योमकेशपेशलः । नीलकण्ठसदृङ नीलो नीललोहितलीलया ॥१२३।। निरूपाक्षः सरूपाक्षः कृत्तिवासाः प्रकाशभाः । वृषा वृषाङ कसर्वाङ गखट्वाङ गधरदुर्धराः ।।१२४।। श्रीकण्ठोत्कण्ठया कण्ठे कण्ठे कालकरालरुक् । ईश्वरोऽनश्वरः स्फूर्जद् धूर्जटिर्मूलशूलभृत् ॥१२५।। मुत्यु मृत्युजयस्फूतिरष्टमूर्तिः अमूर्तिमान् ।
भूतप्रभुः प्रभूतश्री: विष्टपः शिपिविष्टवत् ॥१२६।। म. टी. अभिप्रायवाचका: विस्ताराद्या, आभोगान्ता विस्तारवाचकाः, उच्छयाद्या उद्धरांता, उच्छ्यवाचका समस्ताद्याः, सर्वान्ताः समस्तवाचकाः । अन्यूनाद्या अखिलान्ताः, समस्तवाचकाः नवीनाद्या अभिनवान्ताः । नूतनवाचकानि कामाद्या एकान्तान्तानि । कामवाचका: शब्दा अनुप्राससाधका ज्ञेयाः ।
अथ राजाऽमात्यनमपुत्रपल्यादिवर्णने यथोचिन्त्यमनुप्रासशब्दाः, यथा-महादेवेत्यारभ्य शिपिविष्टवत् पर्यन्ता ईश्वरनामवाचकशब्दा अनुप्राससाधकाः । का.क. गौरीगौरीशकालीश शाली चण्डीशचण्डिमा।
दुर्गादुर्गाणि रुद्राणी वाणी शर्वाणिपाणिना ।।१२७।। वात्या कात्यायनी सर्वमङ गला सर्वमङ गला । नवानीता भवानी साऽपर्णा (5) वर्णा शिवाशिवा ।। १२८।। रणे गणेशविघ्नेश निघ्ने हेरम्बडम्बराः । परः परशुपाणिश्रीः सनायकविनायकाः ।। १२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org