________________
काव्यकल्पलतावृत्तिः
Jain Education International
स्तम्बो लम्बोदरो दन्तैकदन्ते भास्यलास्यवत् । दूषको मूषकरथो महासेन महामहान् ॥ १३०॥ स्वामी कामी कृतास्कन्दः स्कन्दषण्मुख संमुखाः । महातेजो महातेजा दत्तातिः कार्तिकेयवत् ॥१३१॥ कुमारस्तारसेनानी सेना गाङ गेयगेयवत् । सब्रह्मचारि सब्रह्म माहुर्बाहुलेयवत् ।। १३२ ।। शाखाविशाख क्रौञ्चारिसञ्चारिशरभूशराः । तारका तारकारा तिर्नादद्वादशलोचनः
।। १३३ ।।
विश्वरूपस्वरूप श्रीः क्रतुपुरुषपौरुषः । दामोदरवद्दामो धरणीधरदुर्धरः ।। १३४ || श्रीवत्सवदतुच्छश्रीः स त्रिविक्रमविक्रमः । स वासुवासुदेवाभः स हृषीकेशपेशलः ।। १३५ ।। विष्वक्सेन विष्वक्सेना च्छद्मना पद्मनाभवत् । विष्णुवचिष्णुवैकुण्ठकुण्ठलोकेश केशवाः ।। १३६ ॥ द्विट् मुण्डपुण्डरीकाक्षो भारान्नारायणप्रभुः । स्फीतां पीताम्बरो मञ्जुर्म केशाच्युताच्युतः ॥१३७।। श्रीवत्साङ्कशश | ङ कश्रीर्जनार्दन इवाऽर्दनः । सदा गदाधरः शाली वनमाली हरिर्हरिः ।। १३८ || आशा दाशार्ह वद् बाणः पुराणपुरुषक्रमः । इन्द्रोपेन्द्रकृष्ण कृष्णपुरुषोत्तमपौरुषाः ।। १३९ ।।
वृषा वृषाकपिः सेतुस्तार्क्ष्यकेतुरजोऽग्रजः । नयज्ञ यज्ञपुरुष त्रिक्रमोपमविक्रमः ।। १४० ॥
विष्टरश्रवसाविष्टो विश्वं विश्वम्भरः प्रभुः । मनाक् सनातनः शौरिगौरिर्गोविन्द विन्दति ॥ १४१ ॥
द्वीपश्रीपतिदैत्यारिशैत्यः कुन्दमुकुन्दवत् । अगाधमाधवः पद्मे पदमेशयवदाशयः || १४२ ।।
बलदेवलो देवः सीरभृद्वीरविक्रमः । कालिन्दीकर्षणोत्कर्षः सोद्रेकस्त्वेककुण्डलः ।। १४३।।
For Private & Personal Use Only
७३
www.jainelibrary.org