________________
७४
काव्यकल्पलतावृत्तिः
लीलां नीलाम्बरो भद्रबलभद्रो हली बली । कुशली मुशली तालध्वजोत्तालो बलाबलः ।।१४४।। ततालम्बः प्रलम्बघ्नः क्षमापालः कामपालवत् । अनन्तानन्तसङ ग्रामारामकामः सरामवत् ।।१४५।। सङ कल्पजन्मकल्पश्रीविषमाविषमायुधः । चञ्चत्पञ्चशरः पुष्पपुष्पास्त्रो घस्मरः स्मरः ।। १४६।। प्रद्युम्नद्युम्नकन्दर्पकन्दसर्पदर्पकाः । मनो मनोभवो भव्यवदनो मदनोपमः ।।१४७॥ पीनमीनध्वजः कामः कामनामारसारता । शृङ गारयोनि ङ गारस्तम्बशम्बरसूदनः ॥१४८।। अनङ गचङ गसङ गत्या मधुमित्रपवित्रभाः । अथ मन्मथवद्ध नप्रसूनशरभासुरः ॥१४९।। प्रजा प्रजापतिर्धर्ता जगत्कर्ता विधिविधिः । ब्रह्म सब्रह्मचारित्वं पितामहमहा महान् ॥१५०।। स्रष्टा स्पष्टास्फुरन्मेधा वेधाः कमलभूरभूत् । स्वयंभूमिः स्वयंभूवद्धाता नाता जगत्रयीम् ।।१५१।। चतुरा चतुरास्यश्रीः पद्मभूः सद्म सम्पदाम् । परमेष्ठः परमेष्ठी वेदगर्भसगर्भभाः ॥१५२।। शतानन्दकृतानन्दद्रोहिणा द्रुहिणाकृतिः । सुरज्येष्ठः सतां ज्येष्ठो नाभिभूर्नाभिभूतये ॥१५३।। श्रीमानिन्द्र इवोन्निद्रः कश्चिद्द श्चवनोपमः । महामहः सहस्त्राक्षः समन्युः शतमन्युवत् ॥१५४।। वर्यः पर्यन्यवत्पूर्वः पूर्वदिक् क्रान्तकान्तभाः । सुनासीरसुनासीरः साक्षादिव दिवस्पतिः ॥१५५।। शक्रवक्रः पुरुहूतपूतः सूत्रामधामभाक् । नास्तो वास्तोष्पतिः क्षोणीखण्डमाखण्डलप्रभः ।।१५६।। अनघो मघवा भूपः स पुरन्दरसुन्दरः । वासवासवसारौजा बिडौजा दम्भजम्भजित् ॥१५७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org