________________
काव्यकल्पलतावृत्तिः
ससङ क्रन्दनसङ कन्दः पाकशासनशासनः । प्राचीनबहिः प्राचीनवर्गः स्वर्गपतिप्रभुः ।।१५८।। आदित्यनित्यसविता कविता क्रूरशूरवत् । अंशुमाली महःशाली दिवाकर इवाकरः ॥१५९।। द्वादशात्मा महात्माऽसौ त्रयीतनुमनुव्रजन् । जगच्चक्षुः सादृक्षश्रीरहर्पतिमहस्ततिः ॥१६०॥ धर्मकर्मकर्मसाक्षी पवित्रश्चित्रभानुवत् । अर्यमा वर्यमाहात्म्यसत्पूतः सप्तसप्तिवत् ॥१६१॥ आर्त मार्तण्डचण्डश्रीमणिदिनमणिद्युतिः । द्योतनः प्रद्योतनवत् सहस्रांशुमहःसहः ।।१६२॥ भास्वद्भास्वद् भानुभानुः शौर्यसूर्य रविच्छविः । पतङ गचङ गतरणितरस्वस्तिगभस्तयः ॥१६३॥ विरोचनरोचनश्रीः पूषा भूषार्ककर्कशाः । नभो नभोमणिः प्रांशु खरांशुः कोपगोपतिः ।।१६४।। चण्डदण्डधराध्वान्तकृतान्तसमविक्रमः । करालकाल: सद्धर्मो धर्मराजोऽन्तकान्तकृत् ॥१६५।। हीना पीनाशकीनाशतिना समवतिना । सुश्राद्धश्राद्धदेवेन शमनो दमनो द्विषाम् ॥१६६।। सम्मुदी कौमुदीकान्तः साक्षाद्दाक्षायणीपतिः । दोषधीरोषधीभर्ता मुदः कुमुदबान्धवः ।।१६७।। देवाज्जैवातृकः सोमः कोमलो बिन्दुरिन्दुवत् । विधुविधुरितो राजा राजानिस्तन्द्रचन्द्रमाः ।।१६८।। दक्षनक्षत्रनाथश्रीः रोहिणी रोहिणीशरुक् । स्फारातारापतिस्तारतारकस्तारकप्रभुः ॥१६९।। गिरमाङिगरसक्षीबपीवजीवोऽगुरुर्गुरुः । धिषणो धिषणोदग्रश्चित्रश्चित्रशिखण्डिजः ॥१७०।। वाचं वाचस्पतिः सूरिभू रिबृहबृहस्पतिः । सविचार्यसुराचार्यसभृङ गीपतिगीष्पतिः ॥१७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org