________________
काव्यकल्पलतावृत्तिः
म. टी. रणे गणेशेत्यारभ्य मूषकरथपर्यन्ता गणेशनामवाचका (का:)। महासेनेत्यारभ्य द्वादशलोचनपर्यन्ताः कात्तिकेयनामवाचकाः । विश्वरूपेत्यारभ्य पद्मशयवदाशयपर्यन्ता: विष्णुनामवाचकाः। बलदेवेत्यारभ्य सरामवत्पर्यन्ताः बलभद्रनामवाचकाः । संकल्पजन्मेत्यारभ्य प्रसूनशरभासुरपर्यन्ताः कन्दर्पवाचकाः । प्रजेत्यारभ्य नाभिभूतिपर्यन्ताः प्रजापतिवाचकाः । श्रीमानिन्द्रेत्यारभ्य स्वर्गपतिप्रभपर्यन्ता इन्द्रवाचकाः । आदित्येत्यारभ्यः गोपतिपर्यन्ताः सूर्यवाचकाः । चण्डेत्यारभ्य दमनोद्विषामितिपर्यन्ता: यमवाचकाः । सम्मदीत्यारभ्य तारकप्रभुपर्यन्ताः चन्द्रवाचकाः । गिरमारभ्य गी:पतिपर्यन्ता. ब्रहस्पतिवाचका शब्दा अनुप्राससाधका ज्ञेयाः । का.क. अथ प्रकारान्तरेणानुप्रास शब्दानाहगौरीत्यारभ्य शिवापर्यन्ता पार्वतीनामशब्दाः ।
इति शब्दा नपामात्यनृपपुत्रादिवर्णने ।
यथौचित्यं प्रयोक्तव्या शीघ्रानुप्राससिद्धये ।।१७२।। अनुप्रासानयनोपायान्तरमाह
आदिक्षान्तलिपौ कादिक्षान्तशब्दगवेषणम् ।
चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत् ॥१७३।। अकारादिक्षकारान्तशब्दे सति अन्ये तत्सदशाः ककारादिक्षकारान्ताः शब्दा: वीक्ष्यन्ते, तदा चित्रानुप्रासयमकशब्दनिश्चयो भवति । यथा 'अर' शब्दस्य सदृशाः कादिक्षान्तशब्दाः यथासम्भवं लिख्यन्ते-अर कर खर गर घरट्ट चर जरया क्षरया विड्वर तरणि संस्तर दर धर नर परस्पर अम्बर भर मर वर शरवण सर हर अक्षर । तथा--आर कार गार चार जार तार दार धार पार स्फार भार मार वार सार हार क्षार । तथा-आम काम ग्राम आवाम, जामया तामस, दाम धाम नाम पामया, याम राम वाम श्याम साम क्षाम । तथा-कीर चीर जीरक तीर धीर नीर भीरवः, सीर हीर क्षीर कोटीर कुटीर वानीर महीरमण । तथा-अर्ण कर्ण तर्णक पर्ण वर्ण स्वर्ण अर्णव । एवं सर्वशब्देष शब्दान्तराणि गवेषणीयानि ।
शब्दस्य सकलान् वर्णान् स्वरैः सर्वै : क्रमाक्रमात् ।
संयोज्य जनिताः शब्दाश्चित्रानुप्राससिद्धिदाः ॥१७४।। एते शब्दाश्छन्दोऽभ्यासस्तबके शब्दभेदजशब्दविवरणात् ज्ञेयाः ।
इति श्रीजिन. शब्दसिद्धिप्रताने द्वितीयेऽनुप्रासस्तबकस्तृतीय । म.टी. आदिक्षान्तेति-अकार आदिर्येषां ते अकारादयः। लक्ष इति वचनात् क्षकार अन्ते येषां ते तथा। अकारादयश्च ते क्षकारान्ताश्च ते तथा । तेषां पुरस्तात् चित्रानप्रासयमकसिद्धये ककारादिक्षकारान्ता: शब्दा योज्याः । यथा-अर कर खर गर घर कर चर। जरया झरया इत्यादि सुगमम् ॥छ।।
इतिश्रीतपागच्छाधिनायकपातसाहि श्री अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारकभट्टारक पुरन्दर भट्टारक श्री हीरविजयसूरीश्वरशिष्यपण्डितश्रीशभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे शब्दसिद्धिप्रतानप्राप्तानुप्रासस्तबको द्योतक: तृतीयः प्रसरः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org