________________
काव्यकल्पलतावृत्तिः
७७
॥२.४॥
लाक्षणिकाख्यः स्तबकः
अथ मुख्यलाक्षणिकव्यञ्जकानां शब्दानां स्वरूपमाह
शब्दो मुख्यो लाक्षणिको व्यञ्जकश्च त्रिधा मतः । मुख्यार्थवाचको मुख्यो व्यापारोर्थेऽस्य चाभिधा ।।१७५।। लक्ष्याश्रितो लाक्षणिको व्यापारो लक्षणाऽस्य तु ।
व्यङ ग्ययुक्तो व्यञ्जकोऽस्य व्यापारो व्यञ्जनं मतम् ॥१७६।। साक्षात्सङकेतविषयो गोपिण्डादिर्वाच्यो मुख्योऽर्थः, तदभिधायी गोप्रभृतिशब्दोऽपि मुख्यः । अस्य मुख्यशब्दस्य मुख्यार्थे व्यापारः संकेतापेक्षा वाच्यावगमनशक्तिरभिधा । लक्ष्यलक्षकस्य लाक्षणिकशब्दस्य लक्ष्यनिष्ठो व्यापारो लक्ष्यावगमनशक्तिर्लक्षणा । व्यङग्यव्यञ्जनक्षमस्य व्यञ्जकशब्दस्य व्यङग्यनिष्ठो व्यापारो व्यङग्यावगमनशक्तिर्व्यञ्जनम् ।
मुख्यार्थबाधे मुख्यासिन्नत्वे लक्ष्यतेऽपरः ।
रूढः प्रयोजनाद्वार्थो यत्सोक्ता लक्षणा बुधैः ॥१७७।। मुख्यार्थबाधाऽनुपपत्तेरनुपयोगाच्च । 'गङ्गायां घोषः' इत्यादावनुपपत्तिः । 'रामोऽस्मि सर्व सहे' इत्यादावनुपयोगः । अत्र प्रस्तावादभिधेयप्रतिपत्तौ रामशब्दोऽनुपयुज्यमानत्वात् बाधितार्थः स्वाभिधेयभतार्थगामित्वरूपसम्बन्धाद्राज्यभ्रंशप्रवासपितसीतावियोगादिदुःखपात्रत्वं लक्षयति । असामान्यनिर्वेदादिव्यङग्यं प्रयोजनम् ।
म.टी. अथ शब्दासिविधा मुख्या लाक्षणिकाव्यञ्जकाश्च । तत्स्वरूपमाह । मख्यार्थवाचक इति । ननु शब्दानां वाचकत्व नाम वाक्यार्थप्रतिपत्त्यानुकलपदार्थस्मरणजनकः शब्दार्थयोः सम्बन्धः । स च सम्बन्ध: सङ केतो वा पदार्थान्तरं वा । किञ्च स सम्बन्धः कुत्र कल्प्यते ? "जातिमात्रे वा जातिव्यक्त्योर्वा" इति चेदच्यते । पदानां शक्ति: सङकेतः। ननु पदार्थान्तर स च सम्बन्धो व्यवहारबलेन जाताविव व्यक्तावपि गह्यते । न हि गोपदाज्जातिमात्र व्यवहीयते । ननु व्यक्तिरिति युक्त यतो व्यक्त्या विना जात्युपस्थितिरेव नास्तीति कस्यान्वये व्यक्तिप्रकार: स्यात् ? तस्मात् सङकेतग्राहकस्य जातिव्यक्तिसाधारणस्य प्रमाणसिद्धत्वात् उभयत्रापि पदपदार्थयोः संङकेतरूपा शक्तिरस्तीति न किञ्चिनपपन्नमिति । गोपिण्डादिवाचको गोप्रभृतिशब्दो, मुख्योऽस्य व्यापारः । गोपिण्डादिसङकेतरूपा शक्तिः । सा चाभिधेत्यभिधीयते । तस्या व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकोऽवान्तरव्यापार इति व्यापारलक्षणयुक्तत्वात् । तथाहि-तच्छब्देन गोप्रभतिशब्दः, तेन जन्या गोपिण्डादिसङकेतरूपा शक्तिः, पुनस्तच्छब्देन गोप्रभृतिशब्द:, तेन जन्यं गोपिण्डाद्यर्थज्ञानं, तस्य जनिका गोपिण्डादिसङकेतरूपा शक्तिः। अतोऽवान्तरव्यापारोऽभिधेत्यर्थः । एवं लक्षणादिष्वपि व्यापारत्वं ज्ञेयम् । गवादेमुख्यशब्दस्य त्रयोऽर्था-एको मुख्यो १ द्वितीयो लक्ष्यः २ तृतीयो व्यङयार्थश्च ३ । यत्र रूढिवशेन लक्षणा प्रवर्तते तत्र मुख्यशब्दस्य, द्वावेवाएँ -मुख्यो १ लक्ष्यश्च २ । यत्र प्रयोजनवशाल्लक्षणा प्रवर्तते तत्र मुख्यशब्दस्य त्रयोऽर्था-मुख्यार्थो१, लक्ष्यार्थो २, व्यङग्यार्थश्च ३ । एक एव मुख्यशब्दो मुख्यार्थ १ लक्ष्यार्थं २ व्यङग्यार्थं वाश्रित्य यथाक्रमं नामत्रयं धत्ते । तद्यथावाचको १, लाक्षणिको २, व्यञ्जकश्चेति ३ । वाच्योऽर्थो लक्ष्यार्थाद् भिन्न एव भवत्यतो द्वावेवाथौं-वाच्यो १ लक्ष्य २ श्चेति । व्यङग्योऽर्थस्तु लक्ष्यार्थनिष्ठ एव भवति । तस्मात् परमार्थतो वाच्योऽर्थो लक्ष्योऽर्थश्चेति अर्थद्वयमेव भवति । तृतीयो व्यङग्योऽर्थो लक्ष्यार्थस्य विशेषणमेव भवति। तेन लक्ष्यार्थव्यङग्यार्थयोरेकत्वमेवेति भावः। साक्षादितिमुख्यः शब्दः १, मुख्योऽर्थः २, अभिधा व्यापारः ३, लाक्षणिक: शब्द: ४. लक्ष्योऽर्थः ५, लक्षणा व्यापारः ६, व्यञ्जक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org