________________
काव्यकल्पलतावृत्तिः
शब्दः ७, व्यङग्योऽर्थः ८, व्यञ्जनं व्यापारः ९ । इति मुख्यार्थज्ञानसामर्थ्यमभिधालक्षणायां भवो लाक्षणिकः शब्दः लक्ष्यते । लक्ष्यरूपोऽर्थोऽनयेति लक्षणा । व्यङग्योऽर्थो व्यय व्यञ्जनेनेति क्वचिद्विधौ प्रतिषेधरूपः क्वचित् प्रतिषेधे विधिरूपः, क्वचिदन्यथाऽपि । तत्र प्रतिषेधे विधिरूपो यथा-
७८
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ १ ॥ | १
अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येन व्यज्यते । निःशेषच्युतेति च्युतं ननु क्षालितमित्युक्ते व्यङ्ग्यार्थं - प्रतीतिरेव न स्यात् वाप्यामेव क्षालनसम्भवात् । निर्मृष्टो नत् किञ्चिन्मृष्टः । दूरमनञ्जने, निकटे तु साञ्जने । पुलकितेति तन्वीति चोभयं विधेयं व्यङ्ग्यपक्षे । अधमपदस्य अधमपदसहायानां चन्दनच्यवनादीनां च व्यञ्जनकत्वमित्येषोऽर्थशक्तिमूलो वाक्यप्रकाशो ध्वनिः । तथाऽत्रैव स इव त्वं त्वमिव सोऽप्यधम इत्युपमेयोपमालङ्कारो व्यङ्ग्ग्य, इति इदं वृत्तमुत्तमम् । यतोऽतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः । तथाविधौ निषेधरूपो यथा ---
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥१॥
अत्र वञ्जुललतागृहे दत्तसङ्केतानागतेति व्यङ्ग्यं तदपेक्षया वाच्यस्यैव चमत्कारकारित्वादिति । तदपेक्षया नागतेति व्यङ्ग्ग्यस्यार्थस्य मलिना मुखच्छायेत्येतयैवोक्त्या विषयीकृतत्वमिति वाच्यमेव चमत्कारीति । तदिदमत्र तत्त्वं यथा - मुखमालिन्यछायया कामिन्या: कामुकं प्रति रागोत्कर्षः प्रतिपाद्यते । तथा व्यङग्येन प्रेम्णि हि संकेतच्युताया मुखमालिन्यसम्भवात् व्यङग्यं त्वन्यथाऽपि स्यादिति इदं वृत्तं मध्यमम् । यतः - अतादृशि वाच्यादनतिशयिनि प्रगुणीभूतव्यङ्ग्यमिति । 'शब्दचित्रमर्थचित्रमव्यङ्ग्यं त्ववरं स्मृतं' अवरमधममित्यादि काव्यप्रकाशतो ज्ञेयमिति । मुख्यार्थबाधे इति-मुख्यार्थस्य बाधेऽघटमानत्वे सति । मुख्यार्थस्य सम्बन्धादिनासन्नत्वे समीपवर्तित्वे च सति रूढ़ितः प्रयोजनात् कार्यवशाद्वा मुख्यार्थादभिन्नोऽर्थो यो लक्ष्यते ज्ञायते सा बुधैः पण्डितैर्लक्षणा प्रोक्ता । मुख्यार्थबाधश्च क्वचिनुपपत्तेरित्यघटमानत्वात्, क्वचिदनुपयोगाच्चेति प्रयोजनाभावादिति तत्रानुपपत्तितः । यथा 'कर्मणि कुशल' इत्यत्र कुशान् दर्भान् लाति गृह णातीति कुशलो दर्भग्राहकपुरुषो मुख्योऽर्थः । अत्र कर्मणि कार्ये दर्भग्रहणक्रियाया अयोगादघटमानत्वान्मुख्यार्थबाधः, तस्मिन् सति विवेचकत्वसाधर्म्यात् मुख्यार्थाद् दर्भग्रहणक्रियया भिन्नोऽर्थो निपुणतारूपो लक्षणया व्यापारेण कुशलशब्देन लक्ष्यते ज्ञाप्यते । अतो लाक्षणिक : कुशलशब्दः १, लक्ष्योऽर्थो निपुणपुरुषः २, विवेचकत्वादिसम्बन्धेन चतुरनरज्ञापनशक्तिर्व्यापारो लक्षणा ३, इति रूढितो लक्षणा कथिता । रूढिलक्षणायां तु प्रयोजनाभावान्न शब्दस्य व्यञ्जकतेति । तथा 'गङ्गायां घोष' इत्यत्र 'घोषस्त्वाभीरपल्लिका' [अ. चि. ४-६८] इति वचनात् गङ्गाशब्दवाच्ये जलप्रवाहे घोषस्याभीरपल्लिकाया अवस्थितेरघटमानत्वात् मुख्यार्थबाधः तस्मिन् सति समीप - समीपिभावसम्बन्धेन मुख्यार्थासन्नमुख्यार्थाद् गङ्गास्रोतसोऽभिन्नस्तटरूपोऽर्थो लक्षणया व्यापारेण गङ्गाशब्देन लक्ष्यते ज्ञाप्यते । अतो लाक्षणिको गङ्गाशब्दः १, लक्ष्योऽर्थो गङ्गातटं २, समीपसमीपभावसम्बन्धेन गङ्गातटसङकेतज्ञापनशक्तिर्व्यापारो लक्षणा ३, इति प्रयोजनाल्लक्षणा कथिता । प्रयोजनं चात्र व्यङ्ग्यप्रतिपादनं, व्यङ्ग्ग्यं च पुण्यत्वमनोरमत्वशैत्यादिः । तेनात्र गङ्गाशब्दस्य व्यञ्जकताऽपि भवतीति भावस्तेनात्र गङ्गाशब्दो
व्यङ्ग्यः ।
Jain Education International
गङ्गा त्वैकार्थसमवेत पुण्यत्वमनोरमत्वशैत्यादिव्यङग्योऽर्थः २ व्यङ्ग्यज्ञापनशक्तिर्व्यापारी व्यञ्जनम् ३, इत्यनुपपत्त्या मुख्यार्थबाधे लक्षणा दर्शिता जहत्स्वार्था । लक्षणाऽपीयमेव यथा 'गङ्गायां घोष' इत्यत्र गङ्गाशब्देन स्वार्थप्रवाहरूपं त्यक्त्वैव तटं लक्ष्यते इति जहत्स्वार्था त्यजत्स्वार्थेत्यर्थः ।
१. काव्यप्रकाशस्य प्रथमोल्लासे काव्यव्यारत्यानन्तरम् ।
For Private & Personal Use Only
www.jainelibrary.org