________________
काव्यकल्पलतावृत्तिः
अथानुपयोगान्मुख्यार्थबाधे लक्षणा यथा-- स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घनाः । वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे। वैदेही नु कथं भविष्यति ह हा हा देवि धीरा भव ॥१॥ [उ.च.]
'रामोऽस्मि सर्वं सहे' इत्यत्र प्रस्तावादधिकारादभिधेयप्रतिपत्तौ दशरथपुत्ररूपवाच्यावगमे रामशब्दोऽनुपयुज्यमानत्वादप्रयोजकत्वात् मुख्यार्थबाधः । तस्मिन् सति स्वाभिधेयभूतार्थगामित्वरूपसम्बन्धात् मुख्यार्थासन्नमुख्यार्थाद् दशरथपुत्ररूपाद् भिन्नो राज्यभ्रंशप्रवासपितृसीतावियोगादिदुःखपात्रत्वरूपोऽर्थो लक्षणया व्यापारेण लक्ष्यते ज्ञाप्यते । अतो लाक्षणिको रामशब्द: १, लक्ष्योऽर्थो राजभ्रंशादि दु:खभाजनस्वरूप: २, राज्यभ्रंशादिदुःखपात्रत्वरूपलक्ष्यावगमनशक्तिर्व्यापारो लक्षणा ३ । अत्र रामशब्दो लक्षणया राज्यभ्रंशादिदुःखपात्रत्वं लक्षयतीति रामशब्दो लाक्षणिकः। यतो 'रामोऽस्मि' राज्यभ्रंशादिदुःखपात्रमस्मि, अत: सर्व सहे क्षमे इत्यर्थः । अत्र प्रयोजनलक्षणत्वात् व्यङयमपि भवति । तेनात्र व्यञ्जकोऽपि रामशब्दः १, व्यङग्योऽर्थो निर्वेदः स्वावमाननमिति वचनादसाधारणस्वावमाननादिकं २, असामान्यनिर्वेदादिज्ञापनशक्तिप्पारो व्य ञ्जनम् ३ ।
का.क. मुख्यासिन्नत्वं पञ्चधा । यदुक्तम्
अभिधेयेन सम्बन्धात्
सादृश्यात्समवायतः । वैपरीत्यात् क्रियायोगात्
लक्षणा पञ्चधा मता ।।
अभिधेयं मुख्यार्थः, तेन सह सम्बन्धो यथा-'गङ्गायां घोषः। अत्र गङ्गाशब्दाभिधेयस्य स्रोतसो घोषाधारतान
। योऽयं समीपसमीपिभावात्मा सम्बन्धः, तदाश्रयणेन गङ्गाशब्दस्तट लक्षयति । गङ्गात्वैकार्थसमवेतपुण्यत्वमनोरमत्वशैत्यादिप्रतिपादनं प्रयोजनं व्यङग्यम् । न हि तत्पुण्यत्वादि 'गङ्गातट' इत्यादिशब्दान्तरैः स्प्रष्टमपि शक्यते। सादृश्याद्यथा-गौर्वाहीकः' 'गौरेवायं' वा इत्यादौ मुख्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिप्रमाणेन बाधे, अभिधेयेन सादृश्यात्तद्गतजाड्यमान्द्यादिगुणयुक्तो वाहीको लक्ष्यते । प्रयोजनं, सारूपायां ताद्रूप्यप्रतिपत्तिः, साध्यवसानायां सर्वथाऽभेदप्रतिपत्तिः । समवायात्साहचर्याद्यथा-'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तानां प्रवेशानुपपत्त्या मुख्यार्थबाधे साहचर्यात् कुन्तवन्तः पुरुषा लक्ष्यन्ते । प्रयोजनं तु रौद्रत्वादीनां सातिशयानां प्रतिपादनम् । वैपरीत्याद्यथा-अभद्रमुखे 'भद्रमुखः' । अत्र 'भद्रमुख'शब्दस्य अभद्रमुखे प्रयोगात्स्वार्थबाधः । अतोऽसौ स्ववाच्यभूतस्य भद्रमुखत्वस्य वैपरीत्यादभद्रमुखत्वं
वगमयति । प्रयोजनं तु गप्तासभ्यार्थप्रतीतिः । क्रियायोगाद्यथा-'महति समरे शत्रुघ्नस्त्वं' इति । अत्र अशत्रुघ्ने शत्रुघ्नशब्दप्रयोगात् स्वार्थबाधः। शत्रुघ्नशब्दश्च अशत्रुघ्ने शत्रुहननक्रियाकर्तृ त्वायोगात् लक्षणया प्रयुक्तः । प्रयोजनं च वर्ण्यमानस्य शत्रुघ्नशब्दाभिधेयनृपरूपताप्रतिपादनम् । 'कर्मणि कुशलः' इत्यत्र कुशान् लातीति दर्भग्रहणायोगात् मुख्यार्थबाधे विवेचकत्वादौ च सम्बन्धे रूढित: प्रवीणपुरुषरूपोऽर्थो लक्षणाव्यापारेण लक्ष्यते ।
म.टी. अथ मुख्यार्थासन्नत्वस्य पञ्चधात्वेन लक्षणाऽपि बुधैः पञ्चधा मता। यथा अभिधेयेनेति-अभिधेयेन वाच्येन सह सम्बन्धात् १, वाच्येन सह सादृश्यात् २, वाच्येन सह समवायतः साहचर्यात् ३, वाच्येन सह वैपरीत्यात् ४, वाच्येन सह क्रियायोगा, ५, च्चेति समीपसमीपिभावात्मा इति । समीपी प्रवाहः समीपं तटमित्यर्थः । सम्बन्धक्रियायोगयोरुदाहरणानि प्रारदर्शितानि । सादृश्यादुदाहरणं यथा, 'गौर्वाहीक, इत्यत्र, 'गौरेवायं' इत्यत्र च। मुख्यार्थस्य सास्नादिमत्वादेः प्रत्यक्षादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org