________________
काव्यकल्पलतावृत्तिः
प्रमाणेन बाधस्तस्मिन् सति वाच्येन सह सादृश्याद् गोपिण्डगतजाड्यमान्द्यादिगुणयुक्तो वाहीको मुख्यार्थासन्नमुख्यार्थाद् गोपिण्डाद् भिन्न इति लक्षणया व्यापारेण लक्ष्यते, ज्ञाप्यते । अतो लाक्षणिको गोशब्दः १, लक्ष्योऽर्थो वाहीक: २, बाहीकज्ञापनशक्तिर्व्यापारो लक्षणा ३. । अत्र गवादिगतजाड्यमान्द्यादिना सादश्यं पुरस्कृत्योपमेये वाहीके उपमानवाचकगोशब्द: प्रवर्तते इति प्रथमोदाहरणे सारोपा लक्षणा। तस्यां प्रयोजनं व्यङग्यं ताद्रूप्यप्रतिपत्ति: । द्वितीयोदाहरणे साध्यबसाना लक्षणा, अस्यां प्रयोजनं व्यङग्यं, सर्वथाऽभेदप्रतिपत्तिः; शेषं पूर्ववद् ज्ञेयमिति । साहचर्याद्यथा-'कुन्ताः प्रविशन्तीत्यत्र कुन्तानां प्रवेशानुपपत्त्या मुख्यार्थबाधे सतिसाहचर्यान्मुख्यार्थासन्नाः कुन्तवन्तः पुरुषा, मुख्यार्थात् कुन्तरूपाद् भिन्नोऽर्थः । कुन्तवत्पुरुषरूपो लक्षणया व्यापारेण लक्ष्यते । अतो लाक्षणिक: कुन्तशब्द: १. लक्ष्योऽर्थः, कुन्तवत् पुरुषा: २, कुन्तवत् पुरुषज्ञापनशक्तिर्व्यापारो लक्षणा ३. । अत्र कुन्तशब्द: कुन्तवत्पुरुषानेव लक्षयतीति कुन्तशब्दो लाक्षणिकोऽत्र ३, प्रयोजनं व्यङग्यं रौद्रत्वादिप्रतिपादनं वा, शेषं पूर्ववद ज्ञेयमिति । अजहत्स्वार्थाऽपीयमेव, ५ । उदाहरणान्तरं यथा-काकेभ्यो दधि रक्षता' मित्यत्र काकशब्देन ये केचन दध्युपघातकास्त एव लक्षणया गृह्यन्ते । तथा च काकस्यापि दध्युपधातकत्वेन लक्षणया ग्रहणादियमजहत्स्वार्थेत्यर्थः । वैपरीत्याद्यथा--'अभद्रमुखे भद्रमुख' इत्यत्र भद्रमुखशब्दस्थाभद्रमुखे प्रयोगान्मुख्यार्थबाधस्तस्मिन् सति स्ववाच्यभूतभद्रमुखत्ववैपरीत्येन मुख्यार्थासन्नो मुख्यार्थाद्भद्रमुखाद् भिन्नोऽर्थो भद्रमुखरूपो लक्षणया व्यापारेण लक्ष्यते ।अतो लाक्षणिको भद्रमुखशब्द: १, लक्ष्योऽर्थोऽभद्रमुख: २, अभद्रमुखज्ञापनशक्तियापारो लक्षणा ३। अत्र भद्रमुखशब्दोऽभद्रमुखमेव लक्षयत्यवगमयतीति भद्रमुखशब्द एव लाक्षणिकोऽत्र । व्यङग्यमपि यथा-भद्रमुख शब्देन गुप्तासभ्यार्थप्रतीतिर्व्यञ्जनेन व्यापारेण व्यज्यते प्रकटीक्रियते अतो भद्रमुखशब्दो व्यञ्जकः १, गप्तासभ्यार्थप्रतीतिर्व्यङग्योऽर्थः २. गुप्तासभ्यार्थज्ञापनशक्तिर्व्यापारो व्यञ्जनम् । क्रियायोगोदाहरणं पारदर्शितमस्ति । परं 'द्विर्बद्धं सुबद्धं भवतीति न्यायाद्वितीयोदाहरणं यथा--
पृथुरसि गुणैर्मूर्त्या रामो न लोभरतो भवान्
महति समरे शत्रुघ्नस्त्वं तथा जनकस्थितिः । इति सुचरितैर्मुर्तीबिभ्रच्चिरंतनभूभृतां
कथमसि न मान्धाता देव त्रिलोकविजय्यपि ।११।। 'महति समरे शत्रुध्नस्त्व'मित्यत्राशत्रुध्ने शत्रुघ्नशब्दप्रयोगात् स्वार्थबाधस्तेन शत्रुघ्नशब्दोऽशत्रुघ्नमपि शत्रुहननक्रियायोगाल्लक्षणया लक्षयति, प्रयोजनं च वर्ण्यमानशत्रुघ्नशब्दाभिधेयनुपरूपताप्रतिपादनं, शेषं पूर्ववदिति । 'द्विरेफद्विके'तिअत्र द्वौ रैफौ यत्रेति कृत्वा द्विरेफो भ्रमरशब्द उच्यते, न तु मधुव्रतः । परं तत्र बाधितत्वाद् वाच्यवाचकभावसम्बन्धेनासन्नं द्विरेफशब्दो भ्रमरमेव लक्षयतीति भावः । एवं द्विकशब्देऽपि यथा-द्वौ ककारौ यति कृत्वा द्विकः काकशब्द उच्यते, न तु वायसः । परं तत्र कविप्रयोगाभावाद बाधितत्वाद् वाच्यवाचकभावसम्बन्धेनासन्नं वायसमेव लक्षयतीति भावः । एवमानुलोम्यमपि लक्षणया अनुकूलत्वमेव ज्ञायते नन । अनुगतरोमत्वं, तथा लवणस्य भावो लावण्यं लवणगतो धर्मः, परमत्र मनुष्यादिरूपगतचाकचिक्यमेव लावण्यशब्देन लक्ष्यते इति भावार्थः । एवमन्येऽपि लाक्षणिका: शब्दाः स्वयमभ्य ह्याः । मुख्यार्थासन्नत्वं पञ्चधोक्तम् ।
__ लावण्यादयो रूढिशब्दाः। ततः एतेषु कुशलद्विरेफादिषु रूढिलक्षणा। 'गङ्गायां घोषः' इत्यादी प्रयोजनात लक्षणा । प्रयोजनं च पावित्र्यादिव्यङग्यम् । तत्त्वमिदम-रूढिलक्षणायां शब्दस्य वाचको लाक्षणिकश्चेति नामद्वयम् । अभिधा लक्षणेति व्यापारद्वयम् । प्रयोजनलक्षणायां तु शब्दस्य वाचको लाक्षणिको व्यञ्जकश्चेति नामवयम् । अभिधा लक्षणा व्यञ्जनं चेति व्यापात्रयम् । रूढिलक्षणायान्तु व्यङग्यप्रयोजनाभावात् शब्दस्य न व्यञ्जकता, न व्यञ्जनव्यापारः ।
शब्दव्यापारो निरन्तरार्थनिष्ठोऽभिधा मता । स तु सव्यवधानार्थनिष्ठो भवति लक्षणा ।।१७८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org