________________
८१
काव्यकल्पलतावृत्तिः
सव्यवधानो मख्यार्थबाधादिहेतुत्रयान्तरितो यो लक्ष्यस्तटादिरर्थस्तत्र विश्रान्तः शब्दव्यापारो लक्षणा। अभिधव मुख्यार्थे बाधिता सती अचरितार्थत्वात् अन्यत्र प्रसरतीति, तत्पुच्छभूतैव लक्षणा ।
शुद्धोपचारमिश्राऽसौ द्विधा शुद्धापि हि द्विधा ।
उपादानलक्षणाऽऽद्या परा लक्षणलक्षणा ।।१७९।। उपादानं स्वसिद्ध्यर्थ पराक्षेपः। यथा-'पुरे कुन्ताः प्रविशन्ति'। अत्र कुन्तैः स्वप्रवेशसिद्ध्यर्थं स्वसंयोगिन पुरुषा आक्षिप्यन्ते, तत उपादानेनेयं लक्षणा ।
'परार्थ स्वार्पणं लक्षणं' यथा-'गङ्गायां घोषः । अत्र तटस्य घोषाधिकरणता सिद्धये 'गङ्गा' शब्दः स्वार्थमर्पयतीत्यादौ लक्षणेन लक्षणा। अयमभिप्राय:-यत्र शब्दः सर्वथा स्वार्थं त्यजन् अन्यमयं लक्षयति, तत्र लक्षणेन तटादिज्ञापनेन लक्षणा । यत्र तु स्वार्थमपि वदन्नन्यमुपादत्ते तत्रोपादानेन लक्षणा । इमौ द्वावपि भेदौ शुद्धौ, उपचारेणामिश्रत्वात् । यथा 'गौर्वाहीकः' इत्यत्र वस्त्वन्तरे वस्त्वन्तरमपचर्यते, न तथाऽत्रेति भावः । उपचारमिश्राऽपि चतुर्विधा।
सादृश्याद्गौणसारोपा गौणसाध्यवसानिका ।
गौर्वाहिको गौरवायं यत्रोपमानगतगुणतुल्यगुणयोगलक्षणं पुरःसरीकृत्योपमेये उपमानशब्द आरोप्यते, तौ गौणौ भेदौ, गुणेभ्य आगतत्वात् गौणशब्दवाच्यौ ।
सम्बन्धान्तरतः पुनः ।।१८०।।
म.टी. अथ लक्षणाभेदान व्याचिख्यासुः प्रथमं तत्स्वरूपमाह-शब्दव्यापार इति। शब्दव्यापारो निरन्तरार्थनिष्ठः स्वाभाविकार्थनिष्ठोऽभिधा प्रोच्यते । स च व्यापारः सव्यवधानार्थनिष्ठः सान्तरार्थनिष्ठो लक्षणा भवति । सव्यवधानो मुख्यार्थबाधो १, मुख्यार्थासन्नत्वं २, रूढिः प्रयोजनं वा ३ इति हेतुत्रयान्तरितो यो लक्ष्यस्तटादिरर्थस्तत्र विश्रान्तः स्थितः शब्दव्यापारो लक्षणा । अभिधैव मुख्यार्थे बाधिता सती अचरितार्थत्वादनुक्तार्थत्वादन्यत्र तटादिषु प्रसरतीति तत्पुच्छभूतैव अभिधा, समीपगतैव लक्षणा भवतीति भावः । सा मूलभेदेन द्विधा यथा-शुद्धा १, उपचारमिश्रा चरशुद्धाऽपि द्विधा उपादानलक्षणा १, लक्षणलक्षणा च २ । उपादानं स्वसिद्ध्यर्थं पराक्षेपोऽन्यग्रहणम् । यथा-'पुरे कुन्ताः प्रविशन्ति' । अत्र कुन्तैः स्वप्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते, तत्र उपादानेनेयं लक्षणा १ परार्थं स्वार्पणं स्वस्य समर्पणं, लक्षणं यथा 'गङ्गायां घोषः'। अत्र तटस्य घोषाधिकरणतासिद्धये गङ्गाशब्दः स्वार्थ समर्पयतीत्यादी लक्षणेन लक्षणा लक्षणलक्षणा २। अयमभिप्राय:-यत्र शब्दः सर्वथा स्वमर्थ स्वकीयवाच्यं पुण्यत्वमनोरमत्वादिस्वार्थसमवेतगुणत्वादत्यजन् अन्यमर्थ लक्षयति, तत्र लक्षणेन तटादिज्ञापनेन लक्षणा लक्षणलक्षणा । यत्र तु स्वार्थं स्वकीयवाच्यमपि वदन् अन्यार्थमुपादत्ते तत्रोपादानेन लक्षणा । इमौ द्वावपि भेदौ शुद्धौ, उपचारेणामिश्रत्वात् । यथा 'गौर्वाहीक' इत्यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते न तथाऽत्रेत्युपचाराभावः । उपचारमिश्राऽपि चतुर्विधा यथा गौणसारोपा १, गौणसाध्यवसानिका २, शुद्धसारोपा ३, शुद्धसाध्यवसानिका च ४ । तत्र सादृश्यात् गौणसारोपा गौणसाध्यवसानिका । सहारोपेण वर्तते या सा सारोपा । गौणा चाऽसौ सारोपा च गौणसारोपा, सहाध्यवसानेन वर्तते या सा साध्यवसाना । साध्यवसाना एव साध्यवसानिका । गौणा चासौ साध्यवसानिका च गौणसाध्यवसानिका । ‘गौर्वाहीक' इति ‘गौरेवायं' इत्यत्रोपमानगवादिगतजाड्यमान्द्यादिवाहीकगतजाड्यमान्द्यादिसादृश्यं पुरःसरीकृत्योपमेये वाहीके उपमानवाचकगोशब्द आरोप्यते । तौ गौणौ भेदी गणेभ्यो जाड्यादिभ्य आगतत्वाद् गौणौ गौणशब्दवाच्यौ । आरोप्यारोप्यविषयाविति यथा-'गौर्वाहीक' इत्यत्रारोप्यारोप्यविषयौ स्फुटौ प्रकटौ, आरोग्यश्चारोप्यविषयश्च तौ, तथा आरोप्यो गवादिरारोप्यविषयो वाहीकादिरिति गौणसारोपा सादृश्यहेतुका । एषा उपमानोपमेयस्य विद्यमानरूपत्वात् रूपकालङकारस्य बीजमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org