________________
काव्यकल्पलतावृत्तिः
का.क. विज्ञेया शुद्धसारोपा शुद्ध साध्यवसानिका ।
आयुर्घतमायुरेवेदं अनयोः शुद्धभेदयोः कार्यकारणभावः सम्बन्धः । सादृश्याभावान्न गौणता । यथा-आयुःकारणं घृतं तथा न क्षीरादीति क्षीरादिवसादृश्येन आयुः शब्दान्न व्यभिचरतीति कार्यकारित्वादिप्रयोजनम् ।
[सा] षड्भेदेति लक्षणा ।।१८।। उपादानलक्षणा, लक्षणलक्षणा, गौणसारोपा, गौणसाध्यवसाना, शुद्धसारोपा, शुद्धसाध्यवसाना इति षड् भेदाः ।
आरोप्यारोपविषयौ सारोपायां
पुनः साध्यवसानायामारोप्यान्तर्गतः परः ।।१८२।। आरोप्यो गवादिः, आरोपविषयो वाहीकादिः; सारोपा सादश्यहेतुका । एषा उपमानोपमेयस्य विद्यमानरूपत्वात रूपकालङ्कृतेर्बीजम् । यत्रारोप्येण' गवादिना निगीर्णतया आरोपविषयस्य वाहीकादेः प्रतीतिः सा साध्यवसाना । इयमतिशयोक्तेर्बीजम् । यथा--
कमलमनम्भसि कमले च कुवलये
तानि कनकलतिकायाम् । सा च सुकुमारसुभगे
त्युत्पातपरम्परा केयम् । कार्यकारणभावादिलक्षणायां तु न रूपकादिविषयता, सादृश्याभावात् । यथा-- आयु तं यशस्त्यागो
भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं
श्रेयः सत्तीर्थसेवनम् ।। तथा अन्यापदेशालङकारस्य साध्यवसानलक्षणात्वम् । यथा-- अनर्घ्यः कोऽप्यन्त
स्तव हरिण हेवाकमहिमा स्फुरत्येकस्यैव
त्रिभुवनचमत्कारजनकः । इत्यत्र हरिणेन सह प्रतीयमानस्याभेदः ।
सम्बन्धा बहवः । यदुक्तं--'एकशतं हि षष्ठ्यर्थाः' । क्वचित्तादादुपचारः, यथा-'इन्द्रार्था स्थूणा इन्द्रः ।' क्वचित स्वस्वामिभावाद्यथा--'राजकीय: पुरुषो राजा ।' क्वचिदवयवायविभावाद्यथा--'अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः ।' क्वचित् तात्कात् यथा--'अतक्षा तक्षा' । क्वचिन्मानाद्यथा-'आढकमश्नाति ।' क्वचित्स्थानाद्यथा-मञ्चाः क्रोशन्ति' इत्यादयः । सर्वे यथालक्ष्यं लक्षणीयाः ।
१. आरोपविषयो. . . . ऽऽरोप्येण-इदं ला. १ पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org