SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कोव्यंकल्पलतावृत्तिः म. टी. यत्रारोप्येनेति यथा-'गौरेवाय'मित्यत्र आरोप्यो गवादिस्तेन आरोप्येन गवादिना निगीर्णतया मिलिततया सर्वथा भेदत्वेनारोप्यविषयस्य वाहीकादेः प्रतीतिः, सा गौणसाध्यवसानिका । इयमतिशयोक्तेर्बीजमतिशयालङकारस्य कारणमिति । यथा-'कमलमनम्भीसी'ति कमलं पद्मं, अनम्भसि अपानीये पानीयाभावे इत्यर्थः; तस्मिन् कमले च कुवलये उत्पलद्वयं, तथा कमलं कुवलयद्वयं चेति । त्रीण्यपि तानि कनकलतिकायां सुवर्णवल्ल्याम् । सा कनकलतिका सुकुमारसुभगा सुकुमारा चासौ सुभगा च सुकुमारसुभगेत्यर्थः । अत्र कमलस्य पानीयाभावे, कुवल (य) द्वयस्य च कमले, कमलस्य कुवलयद्वयस्य च कनकलतिकायां, कनकलतिकायां च सुकुमारत्वसुभगत्वयोरसम्भवादियमुत्पातपरम्परेति अत्र गौणसाध्यवसानया लक्षणया कमलशब्दस्य पद्मे बाधितत्वात् स्त्रीमुखे प्रयोगः । तथा कुवलयशब्दस्य उत्पले बाधितत्वात् स्त्रीनेत्रे प्रयोगः । एवं कनकलतिकाशब्दस्यापि बाधितत्वात् स्त्रीशरीरे प्रयोग इति । एवमतिशयालङकारोऽपि दर्शित, उत्पातत्वं चात्र बाधावस्थायां भाव्यमन्यथासम्भवात् । सम्बन्धान्तरात् पुनः शुद्धसारोपा १, शुद्धसाध्यवसानिका २, । यथा 'आयर्घतं' 'आयरेवेद'मित्यनयोः शुद्धभेदयोः कार्यकारणभावलक्षणः सम्बन्धः । शेषं पूर्ववत् । सादृश्याभावान गौणता यथा-आयु:कारणं घृतं न तथा क्षीरादीति । क्षीरादिवसदृश्येन आयुः शब्दात् व्यभिचरतीति कार्यकारित्वादिप्रयोजनम् । लक्षणायाः षड्भेदा यथा-उपादानलक्षणा १, लक्षणलक्षणा २, गौणसारोपा ३, गौणसाध्यवसाना ४, शद्धसारोपा ५, शुद्धसाध्यवसाना ६, इति । कार्यकारणभावादिलक्षणायां तु न रूपकालङकारादिविषयता । सादृश्याभावाद्यथा'आयुर्घ त'मित्यादि । तथा अन्योपदेशालङकारे अन्योक्त्यलङकारे शुद्धसाध्यवसाना लक्षणा यथा 'अनर्घ्यः कोऽप्यन्तस्तव हरिणहेवाकमहिमा' इत्यादि । __ अत्र हरिणेन सह प्रतीयमानस्याभेदो ज्ञेयः । शतं षष्ठ्यर्था इति षष्ठया विभक्तेरर्थाः सम्बन्धाः, सम्बन्धे षष्ठीविधानादिति । क्वचित् तादादुपचारो यथा--'इन्द्रार्था स्थूणा' स्तम्भः इन्द्राः प्रतिपाद्यते इत्यादि सुगमम् । सहचरणेति सहचरणाद्यथा-बहुब्राह्मणसहचरणात् शूद्रोऽपि ब्राह्मणः १, स्थानात्-मञ्चाः क्रोशन्ति २, तादर्थ्यात्-कटार्थानि तृणानि कटः ३, वृत्तात् राजवद्वस्त्रालङकरणादिभि: सामान्यपुमानपि राजा ४, मानात् 'सत्करोति काममश्नाति' ५, धारणात् 'चन्दनं तुला' ६, सामीप्यात् 'गङ्गायां घोषः' ७, योगात् शाटकपरिधानात् पुरुषोऽपि स्त्री ८, साधनं कारणं, तस्मात् 'मेघोऽन्नं वर्षति', 'हलादि वान्नं' ९, आधिपत्यात् पुरुषवदाधिपत्यं कुर्वाणा स्त्री अपि पुरुषः १० । अत्र सहचरणेत्यादीनां ब्राह्मणेत्यादीनि यथाक्रममदाहरणानि ज्ञेयानि -इत्यादिषु शुद्धा लक्षणा काचित् रूढितः, काचित् प्रयोजनात्, काचित् सारोपात, काचित् साध्यवसाना, इति लक्षणाविचारः सोदाहरणो दशितः । का. क. यदाहुः-सहचरणस्थानतादर्थ्यवृत्तमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटकराजसक्तचन्दन गङगाशाटकानपुरुषेत्वतद्भावेऽपि तदुपचारः । एषु शुद्धा लक्षणा । काचित् रूढितः, काचित्प्रयोजनात्, काचितसारोपा, काचित् साध्यवसाना । इति लक्षणाविचारः । अथ लक्षणार्हाः केचिच्छब्दाः कथ्यन्ते चित्रेन्द्रजालवाच्यद्विर्भावस्वप्नयमकसंवादाः । द्वैगुण्याभिनयकथाद्विरन्यपर्यायवक्रपुनरुक्तिः ।।१८३।। रूपावस्थार्थवपुर्भावान्तरं परिणतिविवौं । अनुवादानुप्रासानुकृतिच्छायाप्रतिबिम्बशव्दौ च ।।१८४।। प्रतिवीरमल्लनायककविवेशी बन्धुरनुकूलः । प्राणाय्यज्ञातिसुहृद्दायाद्धेसनाभि सहचरसतीर्थ्याः ।।१८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy