________________
काव्यकल्पलतावृत्तिः
सब्रहमचारिनीलीरागसहाध्यायिसदृशसध्याञ्चः । गणनाधिकः सवर्णः संवादी सांयुगीनरिपू ।।१८६।। अधिदैवतविद्याकुलगुरुकुलनाथकुलपुरः पुरुषाः ।। ओंकारचक्रवर्ति क्षेमङ करसार्थवाहतीर्थानि ।।१८७॥ । ज्येष्ठ सभापत्यग्रेसरोत्तमर्णप्रतीक्ष्यजितकाशि । अद्वैतवादिधर्योल्लासघनगृहमेधिनोऽध्यक्षाः ॥१८८।। तत्त्वब्रह्मोपनिषद्रहस्यचैतन्यहृतपरात्मानः । सौरभ्योत्कर्षरसाभोगानन्दाभिजात्यपरभागाः ।।१८९।। लयसर्वस्वविलासास्तण्डुलनिर्यासभाग्यमज्जानः ।। जीविततात्पर्थिव्युत्पत्त्यपवादमर्ममकरन्दाः ।।१९०।। साम्राज्यसिंहनादाहंकारैश्वर्यसंस्कृतविपाकाः । सारोद्धारनिदानव्याख्याटीकाचरित्र विश्रम्भाः ।।१९१।। मूलद्रव्यविवेकव्याकरणनिरुक्तसौष्ठवाभ्युदयाः । सौन्दर्योन्मेषनवीतत्त्वप्ररोहसम्भ्रमोत्साहाः ॥१९२।। वैदग्ध्यावष्टम्भावुत्सवनवनीतयौवनादेशाः। महिमनिघण्टौद्धत्यान्तरङ गपूर्वोक्त्यधित्यकास्वेच्छाः ।।१९३।। प्याप्तिबहुघनपीवक्षीबमहोद्दामतुङ गता प्रौढिः । सर्वाभि सारवृद्धिव्यूहव्यासाट्टहाससङघट्टाः ।।१९४।। विष्कम्भकवज्रपातानध्यायापह नवादिसंवादाः । केतूदयान्तरायावातङ कोपप्लवाध्यवस्कन्दाः ।।१९५।। प्रत्याख्यानान्तद्धिव्याधविडम्बनान्यतीचाराः । अनुपदारुन्तुदकद्वदवैरङ्गिकनास्तिकाः पुरोभोगी ॥१९६।। स्थायी द्रव्यं किट्टस्तुषपिण्याकौ पलालपदधूली । उद्ग्राहपूर्वरङ गप्रतिभा प्रस्तावनाट्यसम्फेटाः ।।१९७।। अङगोद्वर्तनशाखापुरशाखामङ गलावतरणानि । प्रश्नोत्तरप्रहेले कलभकिशोरौ प्रवालमजयौं ॥१९८।। निर्माल्य भङिगकरणी कैतवपाखण्डिकणिकाभेदाः । तर्णक परागसैन्योपपदसमस्याकलान्तरोत्सर्गाः ।।१९९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org