________________
६२
काव्यकल्पलतावृत्तिः
म. टी.
स्कन्दे इति - शिखिध्वजः शिखिवाहनः, मयूरवाहन इत्यादि । शक्तिपाणिः, शक्तिधरः, शक्तिभृदित्यादि । अग्निभूः अग्निजन्मा, वह्निजन्मेत्यादि । क्रौञ्चाद्रिभित्, क्रौंञ्चारिः अन्धकासुरे हि महेश्वरात् क्रौञ्चाद्रिमध्ये, प्रणष्टेऽनेन क्रौञ्चोदारितः इति प्रसिद्धिः क्रौञ्चदारण इत्यादि । तारकद्विट्, तारकारिः, तारकान्तक, इत्यादि । गङ्गासुतः, उमासुतः, कृत्तिकासुतः, गाङ्गेयः, बाहुलेय, इत्यादि । षण्मुखः, षडास्यः, षड्वदन, इत्यादि । ब्रह्मणीति - आत्मभूः पद्मभूः नाभिभूः, आत्मयोनिः कमलयोनिः नाभिजन्मेत्यादि । सरोजासनः कमलासनः पद्मविष्टर इत्यादि । हंसवाहनः श्वेतपक्षिरथ, इत्यादि । अष्टश्रुति अष्टश्रवण, इत्यादि । चतुर्मुखः, चतुरानन, इत्यादि । जगत्कर्ता, विश्वसृडित्यादि । ब्राहम्यामितिब्रह्मनन्दिनी, ब्रह्मसुता, ब्राह्मी, विरञ्चितनयेत्यादि । वचनाधिदेवता वागीश्वरीत्यादि । अत्र शास्त्रेभ्योऽधिदेव्यः शास्त्राधिदेव्यः, शास्त्राधिदेवी, श्रुतदेववतेत्यादि ।
का. क.
पशोर्गणेभ्यो भूताच्च गौरीभ्यः पतिसन्निभाः । शूलात् खट्वाङ्गात् गङ्गाया भुजगेन्दुमुखादपि ||३९|| पिनाकाच्च कपालाच्च कपर्दाच्च भृदादयः । गौर्या महिषेभ्यः शुम्भात् निशुम्भान्मथनीमुखाः ||४०|| भवेभ्यः प्रिया मेनाया हिमाद्यद्विमुखात्सुताः । हेरम्बे गण विघ्नाभ्यामीशाश्चैकपुरोरदाः ।।४१।। मूषकेभ्यो वाहनानि गजेभ्यो वदनानि च । स्कन्दे शिखिभ्यो ध्वजाद्याः शक्तेश्च पाणिसन्निभाः ॥ ४२ ॥ शरादग्निभ्यो भूमुख्याः क्रौञ्चादेस्तारकाद् द्विषः । गङ्गोमाभ्यः कृत्तिकाभ्यः सुताः षट्तो मुखानि च ।। ४३ ।। ब्रह्मण्यात्मनः पद्मेभ्यो नाभेर्भू प्रमुखास्तथा । सरोजेभ्योऽप्यासनानि हंसेभ्यो वाहनानि च ॥ ४४ ॥ ब्राह्म्यां ब्रह्मभ्यो नन्दिभ्यो वचनेभ्योऽधिदेवताः । विष्णौ श्रीभ्यः पतिसमा वार्द्धिभ्यः शयनादयः ॥४५॥ इन्द्रेभ्योऽवरजा वैनतेयेभ्यो वाहनानि च । दैत्येभ्योऽरयः पुराणात् यज्ञेभ्यः पुरुषाः पुनः ॥ ४६|| शार्ङ्गात् चक्रगदाशङ् खादेः श्रीवत्सात् भृतस्तथा । तार्क्ष्योभ्यो ध्वजा देवक्याः पुत्राश्चतुःपुरोभुजाः ||४७ ||
Jain Education International
गोपेभ्यः प्रभुसङ्काशाः पीतेभ्यो वसनानि च ।
कालिय ।त्कालनेमेश्च चाणूराद्धेनुकान्मधोः ॥४८॥
म. टी.
विष्णाविति - श्रीपतिः, लक्ष्मीपतिः, कमलावल्लभ, इत्यादि । वाद्धिशयन:, समुद्रशय, इत्यादि । इन्द्रावरजः, शक्रानुजः, वासवावरज, इत्यादि । इन्द्रमातुरदितेर्गर्भे बलिनिग्रहार्थं वामनरूपेणोत्पन्नत्वाज्जन्माद्यः दीप्तिनिर्जितविरोचनादयं द्यां विरोचनसुतादभीप्सतः आत्मभृरवरजाखिलप्रज्ञः स्वः पतेरवरजत्वमाययौ वैनतेयवाहनः, गरुडगामीत्यादि । दैत्यारिः, दानवरिपुः, असुरद्वेषीत्यादि । पुराणपुरुषः, यज्ञपुरुषः, पुरातनपुमान्, ऋतुपुरुषः इत्यादि । शार्ङ्गभृत्, चक्रभृत्, गदाभृत्
For Private & Personal Use Only
www.jainelibrary.org