SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः कालिन्दीभ्यः सोदरास्तु धूमोर्णायाः प्रियादयः । दक्षिणाशाभ्यः प्रेतेभ्यः पितुश्च पतयो मताः ||३३|| Jain Education International सूर्योभ्योऽङ्गजा रक्षसि रजनीभ्यश्चरः निकषाया: सुता क्रव्यादेर्भुजो वरुणे पुनः । पुनः ||३४|| यादोजलेभ्यः पतयः पाशादस्त्रादयस्तथा । वायौ नित्येभ्यो गतिः स्यादाशुशब्दाश्च गोगतिः ||३५|| श्रीदे सर्वेभ्यः सख्या दिस्तत्पुनाज्जनकादयः । निधानयक्ष किन्नरधनेभ्यः स्वामिसन्निभाः ॥ ३६॥ अलकायाश्चैत्ररथात्पुष्पकात्पतयः पुन- । शिवे त्र्यैकभालेभ्यो दृशो वृषाद् वृषभात् ध्वजाः ||३७|| दिग्भ्यो वासांसि श्यामेभ्यो कण्ठः कालात्पुराद्गजात् । पूषान्धकाभ्यां कामेभ्यो मखेभ्यः प्रतिपन्थिनः ||३८|| म. टी. वायाविति - नित्यगतिः सततगतिः, सदागतिरित्यादि । आशुगः, आशुगतिरिति । श्रीदे इति - शर्वसखः, श्रीकण्ठसंख इत्यादि । नलकूबरजनकः, कूबरपितेत्यादि । निधानस्वामी, यक्षस्वामी, किन्नरस्वामी, धनस्वामी; निधीश्वरः, निधानेशः, गुह्यकाधिप:, किन्नरेश इत्यादि । अलकापतिः, चैत्ररथस्वामी, पुष्पकेश इत्यादि । शिवे इति - त्रिदृक् ललाटे नेत्रयोगादेकदृक्; अर्द्धनारीश्वरमूर्ती महेश्वराङ्गस्य एकदृक्त्वात् भालदृक्, भाललोचनः, एकनेत्रः, अयुग्लोचनः, ललाटनयन इत्यादि । वृषध्वजः, वृषभध्वजः, वृषलाञ्छन, इत्यादि । दिग्वासा, दिगम्बर इत्यादि । श्यामकण्ठः, नीलकण्ठः, नीलग्रीव, इत्यादि । कालप्रतिपन्थी, पुरारिः, गजासुहृत्, पूषद्वेषी, अन्धकारातिः, कामद्वेषी, मखभित्, कालान्तकः, पुरान्तकः, गजा सुरद्वेषी, पूषदन्तहरः, अन्धकरिपुः स्मरारिः, दक्षाध्वरध्वंसक, इत्यादि । पशुपतिः, गणपति, भूतपतिः, गौरीपतिः, प्रमथस्वामी, भूतेश:, गिरिजावल्लभ, इत्यादि । शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत् भुजङ्गभृत्, पिनाकभृत्, पिनाकभृत्, कपालभृत्, कपर्द्दभृत्, शूली, शूलधरः, खट्वाङ्गधरः, गङ्गाधर, उरगभूषणः, शशिमण्डनः, पिनाकपाणिः; कपर्दी, कपाली इत्यादि । अत्र घनवाहनः मेघवाहन, इत्यादि । कृत्तिवासागजाजिनसंव्यानत्वात् चर्मव्यसन, इत्याद्यध्याहार्यम् । गौर्यामिति-महिषमथनी, लुलायभित्, शुम्भभृत्, निशुम्भभृत् इत्यादि । भवप्रिया, शिववल्लभा, इत्यादि । मेनासुता, हिमाद्रिसुता, अद्रिसुता, मेनाङ्गजा, प्रालेयाचलनन्दिनी, गिरिजा इत्यादि । अत्र दाक्षायणी दक्षजा, इत्यादि । सिंहयाना, सिंहवाहना, इत्यादि । स्कन्दजननी, विषमाता, इत्यादि । कृष्णभगिनी नन्दपुत्रीत्वात् विष्णुस्वसेत्यादि । मैनाकस्वा हिमाद्रिपुत्रित्वात्; मैनाकभगिनीत्यादि । हेरम्बे इति - गणपति, गणेशः, विघ्नेश, विघ्नराजः प्रमथाधिप, इत्यादि । एकशब्दादग्रतोरदा योज्याः - एकरदः एकदन्तः । गुहोत्पाटितत्वादेको दक्षिणो दन्तोऽस्येत्येकदशन इत्यादि । मूषकवाहनः, आखुरथः, आखुग, इत्यादि । गजवदन, गजास्यः कुञ्जरानन, इत्यादि । अत्र परशुपाणिः, परशधर, इत्याद्यध्याहार्यम् । १. विष्णु पुत्रित्वात् - इदंपामपुस्तके नास्ति । ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy