________________
इत्यादयः । अव भागबन
काव्यकल्पलतावृत्तिः इत्यादयः । अत्रादिशब्दात प्रमुखा ग्राह्याः। सुधाद्युतिः, श्वेतद्युतिः, हिमद्युतिः, अमृतांशुः, सितरोचिः, शीतरश्मिरित्यादयः । अत्र भाशब्देन कान्तिवाचका: शब्दा योज्यन्ते । निशामणिः, निशाकरः, रजनीरत्नं, रजनीकरः । कृदपि योज्यते-निशाकृत् इत्यादयः । अत्र दशवाजी, दशाश्वः; श्वेतवाजी श्वेताश्च इत्यादयः; अमृतसूः, सुधासूरित्यादयः; अत्रिदृग्जः, अत्रिनेत्रप्रसूत इत्यादयश्चेत्यध्याहार्यम् । का.क.
सुधाश्वेतहिमेभ्यो भा निशाभ्यो मणयः करः ।।२७।। इन्द्रे सहस्रनेत्राणि शतात्तु क्रतवोऽपि च ।। वज्र भ्यः पाणिप्रमुखाः केशवेभ्योऽग्रजाः पुनः ॥२८॥ त्रिदिवेभ्यः स्वःपुरीभ्यः सुधर्मायाः सुरादितः । पौलोमीभ्यः पूर्वदिग्भ्योऽप्सरोभ्यः पतिसन्निभाः ।।२९।। जम्भात्पाकाब्दलाढतात् पुलोम्नो नमुचेरपि ।। अद्रि भ्यः शासनसमा जयन्ताज्जनकादयः ॥३०॥ वह नौ धूमात् ध्वजाद्धव्यहविर्हताद्भुगादयः । ज्वालाभ्यः सप्तादेमन्त्राजिव्हा सप्तादितोऽचिषः ।।३१।।
म.टी. इन्द्रे इति-सहस्रनेत्रः, सहस्राक्षः, दशशतनेत्र, इत्यादयः । शतक्रतुः, शतमन्युः, शतमख, इत्यादयः । वज्रपाणिः, पविलक्ष्मा, वज्राङकः, वज्रीत्यादि । केशवाग्रजः, मुकुन्दाग्रजन्मा, इत्यादि । त्रिदिवपतिः, स्व:पुरीपतिः, सुधर्मापतिः, सुरपतिः, पौलोमीपतिः, पूर्वदिक्पतिः, अप्सर:पतिः, स्वर्नाथः, अमरावतीशः, सुधर्माधिपः, त्रिदेशेश्वरः, शचीप्रियः, प्राचीशः, अप्सरः स्वामीत्यादि सुगमं । जम्भजित् पाकशासन इत्यादि सुगमम् । पुलोमरिपुः, नमुचिद्वेषी, अद्रिभिदादयः इत्यादि सुगमम् ।
जयन्तजनकः, जयन्तपिता इत्यादि । अत्र मेघवाहन इत्याद्यध्याहार्यम् वह्नौ इति-धूमध्वजो, धूमकेतन, इत्यादि; हव्यभुक्, हविर्भुक, हुतभुकृ, हव्याशनः, हविरशन इत्यादि; ज्वालाजिह्वः सप्तजिह्वः । अय सप्त जिह्वा यथा
भवति हिरण्या १ कनका २ रक्ता ३ कृष्णा च ४ सुप्रभा ५ वाच्या । अतिरक्ता ६ बहुरूपे ७ ति सप्त सप्ताचिषो जिह्वाः ॥१॥
मन्त्रजिह्वः। सप्तादेरित्यत्रादिशब्दायुजिह्वो, विषमजिह्व, इत्यादि । सप्ताचिः, सप्तज्वालः, विषमाचिरित्यादि । स्वाहावल्लभः, स्वाहाप्रियः, अग्नायीनायक इत्यादि । अत्र छागरथो मेघ (ष) रथ इत्याद्यध्याहार्यम् । और्वे इति-वडववह्निः, वडवानल इत्यादि । यमे इति-दण्डास्त्रः, दण्डायुध, इत्यादि; मिहिषध्वजः, महिषवाहनः, लुलायुलाञ्छन, इत्यादि; कालिन्दीसोदरः, यमुनासहोदर, इत्यादि; धूमोर्णाप्रियः, धूमोर्णावल्लभ, इत्यादि । दक्षिणाशापतिः, प्रेतपतिः, पितृपतिः, याम्येश:, पिशाचेशः, पितृप्रभुरित्यादि । सूर्याङ्गजः, सूरसूत, इत्यादि । रक्षसीति-रजनीचरः निशाचरः, रात्रिञ्चर, इत्यादि । निकसासुतः निकसाङ्गजः नैकसेय इत्यादि । क्रव्यभुकृ, क्रव्यादः, पलाद, इत्यादि । वरुणे इति-यादःपतिः, जलपतिः, अपांनाथ, यादोनाथ, इत्यादि । पाशास्रः पाशायधः, पाशी, पाशपाणिरित्यादि । अत्रार्णवमन्दिरः, समुद्रालय, इत्यादयः । का.क.
स्वाहाया वल्लभा और्वे वडवायाश्च वह नयः । यमे दण्डादस्रमुखा महिषेभ्यो ध्वजादयः ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org