________________
काव्यकल्पलतावृत्तिः
स्वाहाशनाः, स्वधाभुजः स्वधाशनाः, सुधाभुजः सुधाशनाः, अमृतभुज: अमतान्धसः ऋतुभुज: इत्यादयः। दैत्येभ्योऽरयो यथा-दैत्यारयः, दैत्यद्विषः, दानवारयः, दनुजद्विषो, सुरारय इत्यादि । अत्रनाको विद्यते येषामिति स्वस्वामिभावसम्बन्धानाकिनः स्वर्गिणः त्रिदिवाधीशा इत्यादयः । देवमाता अदिता अदितिर्वा, तस्या अपत्यानि आदितेया:, । अदितिजा इत्यादयः । तेषां विमानो यानमिति सम्बन्धाद् विमानयानाः, वैमानिकाः, विमानिनः, इत्यादयः । विमाने देवयानं सुरयानमित्यादि । अमृते देवानामन्धोऽन्नं, भोज्यं, आहार इति यावत् । देवान्धो देवान्नं देवभोज्यं देवाहार इत्याद्यध्याहार्यम् । अर्के इति-सहस्रादिभ्यो श्वादयो योज्यन्ते । यथा-सहस्रांशः, सहस्ररुचिः, दशशतरश्मिः, खररुचिः, तीक्ष्णरश्मिः. उष्णांश:, शीतेतररश्मिरित्यादि । वक्रादिभ्यो बान्धवा यथा-चक्रबान्धवः, चक्रवाकबन्धः, रथाङ्गसुहृत्, अब्जबान्धवः, पद्मबन्धः, दिवसबान्धवः, दिनबन्धः इत्यादयः । ध्वान्तेभ्य इति-ध्वान्तरिपूः, ध्वान्तारातिः, तिमिररिपुरि त्यादि । गविन: गोपतिः, द्युतिपतिः, त्विषामीश; दिवसेनः । दिवसपतिः; धिनः, द्यपतिः, पद्मिनीनःपद्मिनीपतिः, ग्रहेनः, ग्रहाधीश: इत्यादि । प्रभादिसप्तभ्यः करः सम्बध्यते यथा--प्रभाकरप्रभृतयो यौगिकत्वात् प्रभाकृत् दिवसकृदादयः । नभ इति-नभोरत्नं, नभोमणिः; व्योमरत्नं, गगनमणिः ,दिनरत्नं, दिनमणिः; दिवसमणिरित्यादयः । गगनध्वजः, गगनकेतुः; नभोध्वजः, नभ:केतनः; गगनाध्वगः गगनपान्थः, नभोध्वगः नभःपान्थः; इत्यादयः । सप्तादेरिति-सप्ताश्वः सप्तसप्तिः । आदिशब्दाद् विषमायुजौ ग्राह्यौ। यथा-विषमाश्वः अयक्तसप्तिरित्यादयः । अत्र यौगिकत्वात् भास्वानंशुमानंशुमाली किरणमालीत्यादयः; यमुनाजनकः कृतान्तजनकः; यौगिकत्वात् कालिन्दिसूः, यमसूरित्यादयः । अब्जहस्तः, अंशहस्तो; यौगिकत्वात् पद्मपाणि: गभस्तिपाणिरित्यादयः; अरुणसारथिः अरुणसूत; इत्यादयः । अरुणे इति-अर्कसारथिः रविसूत इत्यादयः ।
का.क.
स्वधास्वाहाभ्यां च सुधा क्रतुभ्योऽपि भुगादयः ।।२१।। दैत्येभ्योऽरयोऽर्के सहस्रात् खरप्रभृतेरपि । उष्णेभ्यश्चांशवश्चक्राब्जदिनेभ्योऽपि बान्धवाः ।।२२।। ध्वान्तेभ्यो रिपवो गोद्यपदिमनीभ्यो ग्रहादिनाः । प्रभाविभाभासोदिवादिनाहदिवसात्कारः ॥२३॥ नभोदिनेभ्यो रत्नानि गगनेभ्यो ध्यजाऽध्वगाः । सप्तादेरश्वा अरुणेऽर्केभ्यः सारथयस्तथा ॥२४।। विनतायाः सूनवस्तु गरुडेभ्योऽग्रजा पुनः । जैवातृके तु कुमुदात् कैरवादपि बन्धवः ।।२५।। शशात्कलायाश्छायाया मृगेभ्योऽपि भृदादयः । तारानिशाकुमुदिनीकौमुदीभ्यो द्विजादिनः ।।२६।।
औषध्या दक्षजायाश्च रोहिण्याश्च प्रियादया । म.टी. विनताया-इति विनतासूनः वैनतेय इत्यादयः । गरुडाग्रजः पक्षिराजाग्रजः इत्यादयः । जैवातके इति-जीवत्यनेनामृतवर्षित्वाज्जगदिति जैवातृकः । जीवे रात्रिको जैवरातृको जैवचेत्यातृकः, तस्मिन् । चन्द्रे कुमुदबान्धवः कुमुदबन्धुः, कैरवबन्धुः; बन्धुप्रायत्वात् सुहृदपि बन्धुरिवेति । तेन कुमुदसुहृत्, करवसुहृदित्यादयः । शशभृत्, कलाभृत्, छायाभृत्, मृगभृत्; शशधरः, कलानिधिः, छायांकः, मृगलांछन, इत्यादयः । तारेनः, निशेन:, ,कुमुदिनीनः, कौमुदीनः; द्विजेनः, तारापतिः, तारकेशः, कुमुदतीशः, करवणीवल्लभः, ज्योत्स्नेशः, द्विजपतिः, द्विजराज इत्यादयः । अत्रेनशब्देन स्वामिवाचकाः शब्दा गह्यन्ते । तेन औषधीप्रियः, दक्षजाप्रियः, रोहिणीप्रियः, औषधीपतिः, दाक्षायणीकामकः, रोहिणीप्राणेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org