________________
५८
जलदादिषु पूर्वपदे सरोजमुख्येषु चोत्तरपदे तु । सुरपतिसमेषु चोभयपदे तु पर्यायपरिवृत्ति: ।।१६।।
जलदादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायपरिवर्तनं भवति । यथा -- जलदस्तोयदो नीरदः । आदिग्रहणात् जलधिस्तोयधिर्नीरधिरित्यादि । सरोजमुख्येषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा सरोजं सरोरुहम् । मुख्यशब्दाद् वडवाग्निर्वडवानलो वडवावह्निरित्यादि । सुरप्रतिसदृशेषु शब्देषु पूर्वोत्तरपदेषु पर्यायपरिवर्तनम् । यथा - सुरपतिः देवराजः त्रिदशेश्वरः । समशब्दाद् भृपतिर्महीपतिः भृमुक् महीभगित्यादि ।
का. क.
इति परिवृत्तिसहा ये योगात्ते यौगिकाः शब्दाः 1 परिवृत्त्य सहा ये ते मिश्रा गीर्वाणतुल्यास्तु || १७||
इत्येवं पूर्वत्रोत्तरत्रोभयत्र च पदे परिवृत्ति पर्यायपरिवर्तनं सहन्ते क्षमन्ते इति परिवृत्तिसहा ये ते जलदादयः शब्दा योगादन्वयाद्भवेयुरिति यौगिकाः । गीर्वाणादयः शब्दाः पुनः पूर्वत्रोत्तररत्रोभयत्र पदे पर्यायपरिवृत्तिमसहमाना मिश्राः । को भावः ? योगयुक्ता रूढिमन्तश्च । तुल्यग्रहणात् कृतान्तदशरथप्रभृतयः । इति श्रीजिन शब्दसिद्धिप्रतानेद्वितीये रूढयौगिक मिश्राख्यः प्रथमस्तबकः ।
म. टी.
अथ शब्दसिद्धिप्रताने रूढयौगिक मिश्राख्यास्तब्धको निगदसिद्धः । तत्र कश्चिद् विशेषो यथा अन्वर्थरहिता इति-यथार्थरहिताः । अनुवाद्येति -- प्रसिद्धमनुवादपदमुच्यते । शब्दा इति । -- अप्रसिद्ध करणीयं विधेयपदमुच्यते । रूढा इति --- यत: सिद्धस्योक्तिरनुवादोऽसिद्धस्योक्तिरभिधानमिति ।
Jain Education International
काव्यकल्पलतावृत्तिः
॥२॥
अथ योगा नामानि
भवन्ति यौगिक : शब्दा: समासव्यासहेतव । तद्योगार्हाणि नामानि कत्यपि प्रतिपादये ॥१८॥ उद्देश्यवचनं पूर्वं सप्तम्यन्तमिहोदितम् । पञ्चम्यन्तं पूर्वपदं प्रथमान्तं पुरः पदम् ।।१९।। शब्दः स एक एवात्र स्यादेकवचनात्कृतात् । बहवो बहुवचनान् मुख्याद्यादेस्तदर्थकाः ॥ २० ॥ स्वर्गे सुरेभ्यो गेहानि देवे द्युभ्यः सदादयः ।
म. टी. अथ यौगिकाह्वानमालिकामाह-
समासेति-यौगिकाः शब्दाः संक्षेपहेतवो विस्तारहेतवश्च भवन्तीति । उद्देश्येति । इह यौगिकनाममालायां प्रथम उद्देश्यपदं सप्तम्यन्तं, ततो यौगिकनामसु प्रथमं पञ्चम्यन्तं पदं द्वितीयं तदग्रे प्रथमान्तं पदं प्रयुज्यते । शब्द इति-यत्रैकवचनं भवति तत्र स एक एव शब्द उक्तो ज्ञेयः । यत्र तु बहुवचनं मुख्यादिप्रभृत्यर्थाः शब्दास्तत्रोक्त शब्दसदृशार्था बहवोऽपरेऽपि शब्दाः ज्ञेयाः । मुख्याद्यादेरिति - मुख्यश्चाद्यश्च मुख्याद्यौ तौ आदियस्य स तथा तस्मान्मुख्यास्त्रादेरत्रादिपदात् तुल्यसन्निभप्रभृतयो गृह्यन्ते । स्वर्गे इति सप्तम्यन्यं उद्देश्यवचनम् । सुरेभ्य इति पञ्चम्यन्तं प्रथमपदं ततो गेहानीति प्रथमान्तं पुरः पदं योज्यम् । एवमग्रेऽपि सर्वत्र ज्ञेयम् । उदाहरणानि यथा --- सुरगेहं सुरसद्म, त्रिदशावासः, अमर्त्यभुवनं, देवलोक, इत्यादयः । देवे इति - द्युभ्यः स्वर्गवाचिनामभ्यः सदादयः शब्दा योज्यन्ते । आदिशब्दात् तदर्थाः सद्मादयो यथासद:, सद्मानः, स्वर्गसदः स्वर्गाला, इत्यादयः । स्वधादिभ्यो भुगादयः प्रत्येकमभिसम्बन्ध्यन्ते । यथा -- स्वाहाभुजः,
For Private & Personal Use Only
www.jainelibrary.org