________________
काव्यकल्पलतावृत्तिः
५७
पुरजयीति । वध्य इति वधार्हमात्रेऽपि । तेन कालियदमनः, कालियारिः, कालियशासनो विष्णुरित्यादयोऽपि गृह्यन्ते । कविरूदयेत्येव । तेन कालियदमनादिवत कालियघातीति न भवति । उक्ताः स्वस्वामित्वादयः सम्बन्धभेदाः, ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्तीति दर्शयितुमाह
सम्बन्धो हि विवक्षात इति पदादेकतोऽपि संयोज्याः।
औचित्याद्विबुधैः प्राग्दर्शितसम्बन्धिशब्दास्ते ।।१०।। विवक्षानिबन्धनो हि सम्बन्धः । तत एकस्मादपि वृषादेः सम्बन्धिपदात् परे सम्बन्धान्तरनिबन्धना: वाहनादयः शब्दाः यथोचिन्त्यं प्रयुज्यन्ते । एतदेवाह
वृषस्य सति वाह्यत्वे शङ करो वृषवाहनः । धार्यत्वे तु वृषाङकोऽयं स्वत्वे वृषपतिस्तु सः ।। धार्यत्वेऽशोरंशुमाली सत्त्वे तु रविरंशुमान् ।
अहेर्वध्यत्वेऽहिरितुर्भोज्यत्वे बहिणोऽहिभुक् ।।१२।। वाह्ययवाहकभावसम्बन्धविवक्षायां यथा वृषवाहनो रुद्र इति भवति, तथा धार्यधारकभावसम्बन्धविवक्षायां वृषलाञ्छनः, स्वस्वामिभावसम्बन्धविवक्षायां वषपतिरित्यपि । तथा धार्यधारकभावसम्बन्धविवक्षायां यथा अंशुमाली रविरिति भवति, तथा स्वस्वामिभावसम्बन्धविवक्षायां अंशुपति: अंशुमानित्यपि । तथा वध्यवधकभावसम्बन्धे यथा अहिरिपुर्मयूरः तथा भोज्यभोजकभावसम्बन्धे अहिभगित्यपि भवति । सम्बन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तरमाह
व्वक्तचिह्नाङिकतो जातिशब्दोऽपि व्यक्तिवाचकः ।
यथागस्तिनिवासा दिक् दक्षिणाशा प्रकीर्त्यते ।।१३।। व्यक्तं निःसन्देहं यच्चिहूं विशेषणं, तेन चिह्नितो जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवति । व्यक्ते मतां यातीत्यर्थः । यथाऽगस्तेमनिविशेषस्य निवासो यस्यां सा, इति व्यक्तं चिहूं; तेन चिह्निता दिगिति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति । एवं सप्तर्षिपूतादिगुत्तराशा, अर्नयनसमुत्थं ज्योतिश्चन्द्र इत्यादयोऽपि । व्युत्पत्त्यन्तरमाह--
शब्दौ त्रिपञ्चसप्तादिवाचको विषमायुजी ।
योजयेत् त्रिनेत्रपञ्चशरसप्तच्छदादिषु ।।१४॥ त्रिपञ्चसप्तादिस्थाने विषम-अयुक्शब्दौ त्रिनेत्रादिपदेषु योजनीयौ। यथा-त्रिनेत्रो विषमनेत्रोऽयुग्नेत्रः शम्भुः; पञ्चशरो विषमशरोऽयुक्शरश्च कामः; सप्तच्छदो विषमच्छदोऽयुकच्छदश्च सप्तपर्णः । व्युत्पत्त्यन्तरमाह
इतरान्तौ नपूर्वो गुणशब्दोऽर्थविरोधनं वक्ति ।
यद्वत् सितेतरोऽसित एवं प्रतिपद्यते कृष्णः ।।१५।। गुणवाची शब्द इतरशब्दान्तो नपूर्वश्च विरोधिनमर्थमभिधत्ते । यथा-सितेतरोऽसितश्च कृष्णः, एवं कृशेतरोऽकृशश्च स्थूल इत्यादि । व्युत्पत्त्यन्तरमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org