________________
काव्यकल्पलतावृत्तिः
तुल्यग्रहणाद्रमणीवल्लभाप्रभृतयो गृह यन्ते। कविरूढ़येत्येव । न हि भवति यथा शिवकान्ता तथा शिवपरिग्रह इति । तथा पत्नीवाचिन: शब्दात्परे प्रणयिप्रमुखाः शब्दाः, तद्वतां कलत्रवतां वरयितृणां नामान्याहुः। यथा-गौरीप्रणयी; गौरीप्रियः, गौरीवरः, गौरीरमणः, गौरीप्राणेश्वरः, गौरीशः शिवः; तस्य हि गौरी कलत्रमिति रूढिः । समशब्दात्तत्समानार्थाः पत्यादयो गह्यन्ते । कविरूढ़येत्येव । न हि भवति यथा गौरीवरः शिवः तथा गङगावर इति । सख्यः सम्बन्धे यथा--
सख्युः सखिप्रभृतयः। सखिवाचकाच्छब्दात्परे सखिसमानार्थाः, तद्वतां सख्यवतां नामाहुः । यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः, मधुसख: कामः । प्रभृतिग्रहणात्सुहदादयो गृह्यन्ते । कविरूढ़येत्येव । न हि भवति यथा श्रीकण्ठसखो धनदस्तथा धनदसख: श्रीकण्ठ इति। वाह्यवाहकसम्बन्धे यथा--
वाह्याद्यानासनप्रायाः। वाह्यवाचिन: शब्दात् परे यानादयस्तद्वतां वाह्यवतां, वाहयितणां नामाहुः । यथा--वषयानः वृषासनः शम्भुः, तस्य हि वृषो यानमिति रूढिः । प्रायः शब्दात् वषगामी वृषवाहन इत्यादयोऽपि । कविरूदयेत्येव । न हि भवति यथा नरवाहन: कुबेरः तथा नरगामी नरयान इत्यादि। ज्ञातेयसम्बन्धे यथा--
ज्ञातेः स्वसृदुहित्रात्मजाग्रजा वरजसङ काशाः । ज्ञाति: स्वजन:, तद्वाचिन: शब्दात्परे स्त्रनादयस्तद्वतां ज्ञातेयवतां, ज्ञातीनां नामाहः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा--यमस्वसा यमुना, हिमवद्द हिता गौरी, चन्द्रात्मजो बुधः, गदाग्रज इन्द्रावरजश्च विष्णुः । यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढ़िः । संकाशशब्दात् सोदरादयो गह्यन्ते। यथा कालिन्दीसोदरो यमः । कविरूदयेत्येव । न हि भवति यथा यमुना यमस्वसा तथा शनिस्वसापि । आश्रयाश्रयिभावसम्बन्धे यथा--
आश्रयतः सदनाख्याः सहासिशयप्रकाराश्च ।।८।।
आश्रयो निवासः, तद्वाचिन: शब्दात् परतः सदननामानि, तथा सदनादयस्तद्वतामाश्रयवतामाश्रितानां नामान्याहु । यथा--सदना: युसमानो दिवौकसः । दिवशब्दोऽकारान्तोऽप्यस्ति इति धुवसतयः, दिवाश्रयाः, धुसदः, धुवासिनः, धुशया देवाः । द्यौः स्वर्ग:, स च तेषामाश्रय इति रूढ़िः। कविरूदयेत्येव । न हि भवति यथा धसमानो देवास्तथा भूमिसमानो मनुष्या इति वध्यवधकभावसम्बन्धे यथा--
वध्याद् भिजिद्धातिद्वेषिध गध्वंसिशासनविपक्षाः ।
अध्यन्तकारिसूदनदर्पच्छिदमनदारिमथनाद्याः ॥९॥ वध्यो घात्यः, तद्वाचिन: शब्दात परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नामान्याहुः। यथा--पुरभित्, पुरजित्, पुरघाती, पुरद्वेषी, पुरध्रुक्, पुरध्वंसी, पुरशासनः, पुरविपक्षः, पुरान्तकारी, पुरसूदनः, पुरदर्पच्छित्, पुरदमनः, पुरदारी, पुरमथनः पुरारिः शिवः । तस्य हि पुरो वध्य इति रूढि: । आदिशब्दात् पुरनिहन्ता, पुरकेतुः, पुरहा, पुरान्तकः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org