________________
काव्यकल्पलतावृत्तिः
'इति' शब्दः प्रकारार्थः । तेन भुपादयोऽपि । कवीनां रूढिः परम्परायाता प्रसिद्धिः । तया न तु कविरुढ्यतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसम्बन्धे कपाली मत्वर्थीयान्त एव भवति, न तु कपालपाल:, कपालधनः, कपालभक, कपालनेता, कपालपतिरित्यादि ।
जन्यजनकभावसम्बन्धे यथा--
जन्याद्विधातुकरसूकृत्कर्तु स्रष्टसृग्जनकमुख्याः ।
जनकाद्योनिजजनिभूसम्भवरुहसूत्यणाद्यास्तु ।।५।। जन्यात्कार्यात्परे विधातप्रभतयः, तद्वतां जनकानां कारणानां नामाहः । यथा विश्वविधाता, विश्वकरः, विश्वसूः, विश्वकृत्, विश्वकर्ता, विश्वसट विश्वजनको ब्रह्मा। तस्य हि विश्वं जन्यमिति रूढ़िः । मुख्यशब्द आद्यर्थः, तेन विश्वकारक इत्याद्यपि । कविरूढ्येत्येव । न हि यथा चित्रकृदुच्यते तथा चित्रसूरिति । तथा जनकात्परे योन्यादयः शब्दाः, तद्वतां कारणवतां, कार्याणां नामाहुः । यथा--आत्मयोनि:, आत्मजः, आत्मजनिः, आत्मभः, आत्मसम्भवः, आत्मरुहः, आत्मसूतिर्ब्रह्मा, तस्य हि आत्मा कारणमिति रूढ़िः । वक्ष्यमाणस्याद्यशब्दस्याभिसम्बन्धादात्मजन्मादयोऽपि । अणादयस्तुभृगोरपत्यं भार्गवः, दितेरपत्यं दैत्यः, वत्सस्यापत्यं वात्स्यायन इत्यादि । अत्रापि हि भार्गवादीनां भग्वादयो जनका इति रूढ़ि: । कविरूढ्येत्येव । न ह्यात्मयोनिवदात्मजनक आत्मकारक इति भवति । धार्यधारकसम्बन्धे यथा--
धार्यात् ध्वजास्त्रपाण्यङ कमौलिभन्मण्डनसमानाः ।
धरभर्तु मालिमत्वर्थशालिशेखरसाहक्षाश्च ।।६।। धार्यवाचकात्परे ध्वजादयः शेखरान्ता धारकस्य नामा [न्या] हुः । यथा-वृषभध्वजः, शलास्थः पिनाकपाणि:, वृषाङकः, चन्द्रमौलि: शुलभूत्, शशिमण्डनः । समानग्रहणात्सदशार्थाः । वृषकेतनः, शूलायधः, वृषलक्ष्मा, चन्द्रशिरः, चन्द्रभषणः, चन्द्राभरणादयो गह्यन्ते । तथा-गङगाधरः, पिनाकभर्ता, पिनाकमाली-पिनाकं मालते धारयतीति कृत्वा, श्ली, पिनाकशाली, शशिशेखरः । कविरूढ़ येत्येव । तेन सत्यपि धार्यधारकसम्बन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । न हि भवति वृषध्वजवच्छूलध्वजः, श्लास्त्रवत्, चन्द्रास्त्रः, पिनाकपाणिवदहिपाणिः, वृषांडकवच्चन्द्राङकः, चन्द्रमौलिवद् गङगामौलिः, शशिमण्डनवत् चन्द्रमण्डनः, गङगाधरवत् चन्द्रधरः, पिनाकभत वत् चन्द्रभर्ता, पिनाकमालिवत् सर्पमाली, शूलिवत् शुलवान्, शूलशालिवत् चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखर इति । भोज्यभोजकभावसम्बन्धे यथा--
___ भोज्याद् भुग्लिट पाध्यन्धोव्रतपाशाशनप्रमुखाः । भोज्यं भक्ष्यं, तद्वाचिन: शब्दात्परे भगादयः शब्दाः, तद्वतां भोज्यवतां भोक्त णां नामान्याहुः। यथा-अमृतभुजः, अमृतलिहः, अमतपायिनः, अमतान्धसः, अमतव्रताः, अमृतपाः, अमृताशा:, अमृताशनाः देवाः; तेषां मतं भोज्यमिति रूढिः । प्रमखशब्दस्तत्समानार्थः भोजनादिपरिग्रहाय । कविरूदयेत्येव। न हि यथाऽमतभुजस्तथाऽमृतवल्लभा इति भवति । पतिकलत्रे भावसम्बन्धे यथा--
पत्युः कान्ता दयिता वधूः प्रणयिनी प्रियाङ्गनातुल्याः ।
पत्न्याः प्रणयिप्रियवर रमणप्राणेश्वरेशसमाः ।।७।। पतिर्वरयिता । तद्वाचकाच्छब्दात्परे कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम (न्या)हः । यथाशिवकान्ता, शिवदयिता, शिववधः, शिवप्रणयिनी, शिवप्रिया, शिवाङगना, गौरी; तस्याः हि शिवः पतिरिति रूढिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org