________________
५४
फा.क.
॥२.१॥
अथ शब्दसिद्धिप्रतान: द्वितीयः
तत्र पूर्व रूढयौगिकमिश्र शब्दाख्यानं यथा
रूढयौगिक मिश्राख्या स्त्रिधा शब्दाः प्रकीर्तिताः । व्युत्पत्तिवजिता रूढाः शब्दा आखण्डलादयः ॥ १ ॥
प्रकृति प्रत्ययविभागेनान्वयार्थरहिता व्युत्पत्तिवर्जिताः शब्दा इत्यनुवाद्यनिर्देश:, रूढा इति विधेयपदं, आखण्डलादय इत्युदाहरणम् । न ह्यत्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति । आदिशब्दान्मण्डपादयः । यद्यपि 'नाम च धातुजं' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजस्तथापि वर्णानुपूर्व्यनुज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिः, न पुनरत्वर्थोऽर्थप्रवृत्तौ कारणमिति रूहा अभ्युत्पन्ना एव ।
यौगिकान् शब्दान् व्याचष्टे
योगो गुणेन क्रियया सम्बन्धेन कृतोऽन्वयः ।
शब्दानां परस्परमर्थानुगमनमन्वयः संयोगः । गुणक्रियाकृतयोगे यौगिकानामुदाहरणम् । स्यान्नीलपीतादिर्नीलकण्ठादयस्ततः ॥२॥
गुणः
ततो गुणतः, गुणनिबन्धनो येषां योगस्ते शब्दा: नीलकण्ठाद्याः; नीलः कण्ठोऽस्येति गुणप्राधान्यान्नीलकण्ठः शङ्करः । आदिशब्दाच्छितिकण्ठः कालकण्ठ इत्यादि । सङख्यापि गुण एवेति वैशेषिकमते ततः । पञ्चबाणवण्मुखाऽष्टश्रवोदशमखादयः । ततः कारणात्पञ्चवाणादयोऽपि गुणनिबन्धनयोगाः ।
Jain Education International
काव्यकल्पलतावृत्तिः
क्रिया: करोति प्रमुखास्ततः स्रष्टुमुखा मताः ।
ततः क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्टुप्रभृतयः । सृजतीति सर्जनप्राधान्यात् स्रष्टा ब्रह्मा । एवं धातेत्यादयः ।
सम्बन्धं व्याचष्टे
सम्बन्धः स्वस्वामित्वादिस्तत्राहुर्नाम तद्वताम् । स्वान्ने तृपतिभुक्पालधनमत्त्वर्थकादयः
11311
स्वमात्मीयं, स्वामी यस्तत्र प्रभविष्णुस्तयोर्भावः स्वस्वामित्वं तदादिः सम्बन्ध: । आदिशब्दाज्जन्यजनकभावादिपरिग्रहः । तत्र स्वस्वामिभावसम्बन्धे नेतृप्रमुखाः शब्दाः स्वात्परे नियोजितास्तदृतां स्वामिनां नामाहुः । मत्वर्थक इति । मतुस्तद्धिस्तस्यार्थोऽस्त्यर्थविशिष्ट प्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः, तदाधारो वा । तदस्यास्त्यस्मिन्निति मतुप्रत्यय विधानात् । मतोऽर्थो यस्य सः मत्वर्थकः तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । न केवलं मत्वर्थक एव मत्वर्थाप्यभिचारात्मतुरपि । आदिशब्दा त्यादयोऽपि । 'तत्राहुनार्म तद्वतां' इत्युत्तरेष्वप्यन्वर्तनीयम् ।
क्रमेणोदाहरणान्याह --
भूनेता भूपतिर्भभृत् भूपालो भूधनस्तथा । भूभांश्चेति कवे रूढ्या ज्ञेयोदाहरणावलिः || ४ ||
For Private & Personal Use Only
www.jainelibrary.org