________________
काव्यकल्पलतावृत्तिः
अन्ये तु सप्तभिर्वायुस्कन्धेस्तानि चतुर्दश ।
पातालैः सप्तभिः सार्द्ध तान्येके त्वेकविंशतिम् ॥३।। तेष भर्लोक भस्तस्यां महीद्वीपाश्च सप्त तु ।
सर्वमध्ये जम्बुद्वीपः तत्र प्लक्षोऽथ शाल्मल: ॥४॥ दक्षिणोत्तरादिदेशविभागश्च-- ब्रह्मावर्त्तः सरस्वत्याः दषढत्याश्च मध्यत: ।
ब्रह्मवेदिः कुरुक्षेत्र पञ्चरामह्नदान्तरम् ।। इत्यादि द्वीपा अष्टादशेत्यादि ।
प्राच्यपाची प्रतीच्यदीची चतस्त्रो दिश: किल । ऐन्ध्राग्नेयी याम्यानैऋती वारुणी वायव्यकौबेर्येशानी चाप्टौं दिशस्तथा ब्राह्मी नागीयाद्वैताभ्यां सार्द्ध दशदिशोऽपरे ब्राह्मी तुध्वं नागी त्वधः । कालव्यवस्था यथा-- स्वस्थेतरे सुखासीने यावत स्पन्दति लोचनम् ।
तस्य त्रिशत्तमो भाग: टिरित्यभिधीयते ।।१।। त्रिंशत्त्रटिनिमेषस्तैः काष्ठा सदशपञ्चभिः ।
त्रिंशत्काष्ठा: कलास्ताभिमहत: त्रिंशता मताः ।।२।। त्रिशता तैरहोरात्रो मतान्तरमथोच्यते ।
अष्टादशनिमेषाः स्युः काष्ठा, काष्ठा: द्वयं लवः ।।३।। कला : पञ्चदशभिर्लेशस्तत द्वितयेन च ।
क्षणस्तै: पञ्चदशभिः, षट्क्षणा घटिका पूनः ॥४॥ महूर्तस्तद्वयेनाहोरात्रस्तस्त्रिशता भवेत् ।
पक्षस्तैः पञ्चदशभिः, मास: पक्षद्वयेन च ।।५।।
हौ मासावत: पट् च षड्भिः संवत्सरश्च तै: । षटपदी। इत्यादि ॥छ।
इति श्री तपागच्छाधिनायकपातसाहिश्रीअकबरप्रतिवोधदायक श्रीशत्रुञ्जयादितीर्थक रमक्तिकारक भट्रारक श्री श्री हीरविजयसूरीश्वरशिष्यण्डित श्रीशभविजयगणिविरचिते काव्यकल्पलतावत्तिमकरन्दे छन्दःसिद्धिप्रतानान्तगतवर्ण्यस्तबकोद्योतक: पञ्चमप्रसर: समाप्तस्तत्समाप्तौ च समाप्तोऽयं छन्दःसिद्धिप्रतान: प्रथमः ॥छ।। १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org