SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ काव्य कल्पलतावनि: विष्णुहरादय:, देव्यः सरस्वतीलक्ष्मीगौरीप्रभृतयस्तासां स्थितिमतिशयपरिबारलाञ्छनयानादिरूपा: । नायिकानायका उत्तममध्यमादयस्तेषां क्रमं सर्वे जीवा अपदद्विपदचतुष्पदपट्पदाष्टापदामि तपदादयस्तेषां स्वभावात् स्वरूपाणि देशकाल - योर्व्यवस्थां च विद्यादिति अत्र सर्वत्र चकारोऽध्याहार्यः । एतेषां सर्वेषामुदाहरणानि परिमलादज्ञेयानि । एतद्विशेषो यथा - देवा महदेवादिचतुर्विंशतिजिना: प्रसिद्धास्तेपामतिशयादि च । अथ- ब्रह्मा गीतचतुर्वेदश्चतुर्वक्त्रो हिरण्यरुक् । ब्रह्मसूत्री हंसरथो जगत्कर्ता चतुर्भुजः || १ || अस्य पत्यौ तु सावित्री गायत्र्या भारती सुता । विष्णुनाम्यम्बुजे जन्माश्रयावर्द्धदिगीशता ||२|| ५० अथेश: -- भारती शुभ्रभा हंसवाहना कमलासना | अथ विष्णु:-- Jain Education International चतुःपाणिस्यपद्माक्षस्तत्रवीणाकमण्डलुः ॥३॥ शिवे जटा, शिरोगङ्गा चन्द्रभालेक्षणानलाः । दशाव्ययानीति- विपश्यामलकण्ठत्वमाधारो भस्मगोरता ॥१॥ अस्थिभृद्भूषा नृत्तं वृषभयानता । वासुकिमुण्डमाला च भूषा कण्टकपर्दयोः ||२|| कल्पान्तकालवृत्तत्वं सर्वसंहारकारिता । शिवस्य पञ्च मुखानि, नवशक्तयोऽष्टौ मूर्तयो, दशाऽव्ययानीतिः-ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमाधृतिः । रुष्टृत्वमात्मसम्बन्धोऽप्यधिष्ठातृत्वमित्यपि । गौरी विवाह क्रीडेयपदपातरतादयः ॥३॥ सद्योजातो १ वामदेवो २ घोर ३ स्तत्पुरुष ४ स्तथा । ईशानो ५ मृत्युंजयश्व ६ विजय: ७ किरणाक्षकः ८ ||१|| अघोरास्त्र ९ थ श्रीकण्ठो १० ब्रह्मदेव ११ इति क्रमात् । रुद्रा एकादश प्रोक्ता द्वादशस्तु सदाशिवः || २ || विष्णुश्चतुर्भुजः श्यामो लक्ष्मीश: कौस्तुभांकितः । शङ्खचक्रगदाशार्ङ्गपाणिर्गरुडवाहनः ||१|| सनन्दको start शेषशयनो विश्वपालकः । गोपीविलासकृत्क्तृप्तगोवर्द्धनधरोद्धृतिः ॥ २ ॥ धरोद्धारकरो दैत्यहन्ता दशावतारकृत् । पट्पदी | मत्स्यः १ कुर्मो २ वराहश्च ३ नारसिंहोऽथ ४ वामनः ५ । रामो ६ रामश्च ७ कृष्णश्च ८ वृद्धः ९ कल्की १० च ते दश || १|| For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy