________________
काव्यकल्पलतावृतिः
नारायणदामोदरमाधवप्रभृतेरपि । दानवासुरदैत्यानामैक्यमेवाभिसंमतम् ।।१०८।। चतुभि : कलापकम् ।
दानवास्तु विप्रवृत्तिः शम्बरो नमुचिस्तथा । पुलोमादयोऽथ दैत्या हिरण्याक्षो विरोचनः ।।१०९।। बाणो हिरण्यकशिपुर्वलिप्रह लादकादयः । अथासुरा वृषपर्वबलवृत्रादयः स्मृताः ॥११०।। स्त्रीणामक्षणां कटाक्षाणां शुक्लता श्यामताऽथवा । कृष्णताऽप्यथवा शुक्लश्यामता शुक्लकृष्णता ॥१११।। बहकालजन्मनोऽपि शिवचन्द्रस्य बालता । मनोभणस्य' मूर्त्तत्वममूर्तत्वं च वर्ण्यते ।।११२।। देवदेवीस्थिति विद्यान्नायिकानायकक्रमम् । स्वभावान् सर्वबीजानां व्यवस्थां देशकालयो: ।।११३।।
एततश्लोकोक्तभावान वानां विशेषान्तराणि कविसमयोदाहरणानि मत्कृतकाव्यकल्पलतापरिमलाद ज्ञेयानि । स्तबकोऽयं गतार्थः।
इति श्रीजिनदत्त० वर्ण्यस्थितिस्तबकः पञ्चमः ।। समाप्तश्चायं छन्दःसिद्धिप्रतान: प्रथमः ।।
म. टी.
अथ कविसमय:--
अर्थ परम्परायातमशास्त्रीयमलौकिक
बध्नन्ति कवयोऽयं सूकवीनां समयो मतः ।।१।।
प्रमाणं कविसमयो, वस्तुवृत्तिस्तु न क्वचित् षट्पदी। एतद्विस्तार: परिमलाद ज्ञेयः । असतोऽपीति कस्यापि । जातिद्रव्यगणक्रियादेरेवासतोऽपि । अविद्यमानस्यापि निबन्धेन गुम्फेन तथा कस्यापि जात्यादेरेव । सतोऽपि विद्यमानस्याप्यबन्धेनागम्फेन जात्यादेनियमेनातिप्रसक्तस्यावधारणेनाथवा नियमः । कविसमयो यथा कृष्णनीलयो: कृष्णहरितयोरैक्यमित्यादि । तेन च कवीनां समयस्त्रिधा भवति यथा--रत्नादित्यादिप्वसत्या अपि जातेनिबन्धः, तिमिरस्येत्यादिप्वसतोऽपि द्रव्यस्य निबन्धः, शक्लत्वमित्यादिप्वसतोऽपि गणस्य निबन्धः, विभावयमित्यादिप्वसत्या अपि क्रियाया निबन्धः, इत्यसतो निबन्धो जात्यादेवणितः । वसन्ते मालतीत्यादिषु सत्या अपि जातेरनिबन्धः । कृष्णान्यपक्षयोरिति कृष्णपक्षे, ज्योत्स्ना श्वेतपक्षे च, ध्वान्तं न वर्ण्यते इत्यर्थः । कामिदन्तेष्वित्यादिषु सतोऽपि द्रव्यस्यानिबन्धः, हरितत्वमित्यादिषु सतोऽपि गणस्यानिबन्धः, शेफालिकेत्यादिपु सत्या अपि क्रियाया अनिबन्ध: । शेफालीकुसुमेषु भ्रंशं पतनमिति इति सतोऽप्यनिबन्धो जात्यादेवर्णितः । मुक्ता इत्यादिषु जातेनियमः, भूर्जङ नित्यादिषु द्रव्यस्य नियमः । सामान्यग्रहणे वारिमुचामित्यादिषु गुणस्य नियमः, वसन्त एवेत्यादिषु क्रियाया नियम, इति जात्यादेनियमो वर्णितः । नियमविशेषो यथा-नीलकृष्णयोर्हरितकृष्णयोरित्यादि। तत्र नागसर्पयोरिति नव कूलनागजातयः, शेषाः सर्पजातय इति । वायत्रिदगजचन्द्रयोरिति--वाद्धिजा त्रिदगजचन्द्रयारक्यमिति दानवामरदैत्यानामित्यवैक्यचिन्तनाद् व्यत्ययो न दोपायेति कवीनां समयो वणितः । देवेत्यादि-देवा जिनब्रह्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org