________________
काव्यकल्पलतावृत्तिः
।। १.५ ।।
पञ्चमः स्तबकः
अथ वर्ण्यानि
अथ वर्ण्यानि कथ्यन्ते तानि यानि कवीश्वरैः ।
महाकाव्य प्रभृतिषु प्रबन्धेषु बबन्धिरे ॥४५ ॥
I
राजा मन्त्रिपुरोहितौ नृपवधू राजाङ गजः सैन्यपो देशग्रामपुरःसरोsब्धि सरिदुद्यानाधरण्याश्रमाः मन्त्रो दुतरणप्रयाणमृगयाश्वेभर्विनेन्दूदया । ववाह विरहः स्वयंवरसुरा पुष्पाम्बुखेला रतम् ।। ४६ ।। नृपे विद्या नयः शक्तिः बलं तस्करताक्षयः । प्रजाशास्तिः प्रजारागो धर्मकामार्थतुल्यता ||४७॥
प्रयाणरणखड्गादिशास्त्राण्यरिपराजयः । अरिनाशोरिशैला दिवासोऽरिपुरशून्यता ॥४८॥
महः श्रीदानकर्त्याद्या गुणौद्या रूपवर्णनम् । मानवा मौलितो वर्ष्या देवाश्चरणतः पुनः ॥ ४९ ॥ | शास्त्रं स्थैर्य बुद्धिर्गभीरता ।
Jain Education International
महामात्येनयः
म.टी.
अथ वर्ण्यस्तवकं विवृण्वत् (न्) वर्ण्यपदार्थानाह । राजेति राजा छत्रचामरादिविभूषितो भूपतिः १, बुद्धिमान् प्रधानं ( नः ?) (२), पुरोहितः शान्तिकपौष्टिकादिकर्ता ३, नृपवधू राज्ञी ४, राजाङ गजो राजपुत्र: ५. सैन्यपः सेनानी ६. देश : सौराष्ट्रादिः ७. ग्रामः करादिगम्यः ८. पुरी करादिरहिता ९. सरः तडागः १० अब्धिः समुद्रः ११. सरित् नदी १२. उद्यानं नगरासन्नवनखण्ड १३. अद्रि पर्वत : १४. अरण्यमटवी १५ आश्रमो मुनिस्थानं तापकावास इत्यर्थः १६. मन्त्रो रहो विचारः १७. दूतः संदेशहारकः १८. रणः संग्रामः १९ प्रयाणं देशसाधनाय यात्रा २०. मृगया आखेटक : २१. अश्वो घोटक : २२. इभो हस्ती २३. ऋतुर्वसन्तादि: २४. इनश्च इन्दुश्च इन्दू, तयोरुदय इन्दूदय: २५. विवाहः पाणिग्रहणं २७. विरहो भर्तृपुत्रादिसम्भवो वियोग: २८. स्वयंवरः स्वेच्छया वरणं २९. सुरा मदिरा ३० पुष्पेति खेलनं खेलः पुष्पं चाम् च ३१. पुष्पाम्बुनीतयोः खेलः कोऽर्थः पुष्पावचयः जलकेलिश्च ३२. रतं मैथुनं ३३ इति द्वारकाव्यं । एतेषु पदार्थेषु वर्ण्यधर्मा यथा नृपे विद्येति चतुर्दशविद्या भवन्ति । तद्यथा-- शिक्षा १. कल्पः २. व्याकरणं ३. छन्दः ४. ज्योति: ५. निरुक्तिः ६. चत्वारो वेदा: १०. मीमांसा ११. आन्वीक्षिकी १२. धर्मशास्त्रं १३. पुराणं १४. चेत्यत्र । शिष्यते वर्णविवेकोऽनयेति शिक्षा मातृकापाठः । भले शास्त्रमित्यर्थः । कर्मणां सिद्धस्यरूपः प्रयोगः कल्यतेऽवगम्यतेstar कल्पः कर्मशास्त्रं । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणं शब्दशास्त्रं । एकाक्षरादिछन्दः प्रतिपादकं शास्त्रं छन्दः शास्त्रं ज्योतिज्र्ज्योतिःशास्त्रं निरुक्तिः पदभञ्जनं, पञ्जिकेति यावत् । पदानि भक्त्वा व्याख्यायन्ते यत्र तत्पदभञ्जनमित्यर्थः । इति षडङ्गानि वेदाः प्रसिद्धाः अर्थशास्त्रविचारणा-मीमांस्यते विचार्यतेऽनयेति मीमांसा तच्छास्त्रं सांख्यादि दर्शनशास्त्रं । आन्वीक्षिकी तर्कविद्या प्रमाणशास्त्रं । अष्टादशस्मृतयो धर्मशास्त्रं । अष्टादश पुराणानि पुराणशास्त्रं । कार्य
४१
For Private & Personal Use Only
www.jainelibrary.org