________________
काव्यकल्पलतावृत्ति:
म. टी. अथसम्पूर्णमपि पादद्वयमाह-चमत्कारेत्यादि । एवमष्टपादद्वयरूपा चतु:ग्लोका दर्शिताः ।।
अथेन्द्र वनादिवत्त शिक्षामाह--उद्यदित्यादितः स्रग्धरा, यावत् सर्व स्पष्टार्थ तत्र बहलनिबिडेति बहलं विस्तीर्ण, निविडार्थे तु बहलशब्दोऽदंतह मध्यो ज्ञेयो, न तुदंतह मध्य इति: दीति-दीर्घकाक्षरमादिप्रयोज्यमन्तप्रयोज्यं चेति द्विधा; ह्रस्वकाक्षरमादिप्रयोज्यमन्तःप्रयोज्यं चेति द्विधा; दीर्घ ह्रस्वाक्षरं द्वन्द्वस्य प्रसारतो यथा दीघों ह्रस्वदीघों दीर्घह्रस्वी ३ ह्रस्वी ४ चेति चतुर्विषत्वं, आद्यन्तप्रयोज्यत्वेनाष्टविधत्वं, गणस्य प्रस्तारतो मयौ रसौ तजी म्नौ क्यरष्टी वणगिणास्त्रिका: आद्यन्तप्रयोज्यत्वेनैकैको। द्विधा स्थापना यथा--इति आदिप्रयोज्यशब्दानामन्तेप अथान्यादिशब्दप्रयोगादन्तप्रयोज्यशब्दा शेयाः । एवं क्रमेण सर्वछन्दसां सिद्धार्थमेकाक्षरादिकाः सामान्यशब्दाः परिमलात् मन्तव्याः ।।छ।। का.क. अथेन्द्रवज्रायां पूर्णाक्षरद्वयं--
उद्यत् माद्यत् चञ्चत् राजत् रङगत् सर्पत् भास्वत् । आद्यमक्षरत्रयं--
भ्राजिष्णु विभ्राजि रोचिष्णु बर्हिष्णु संशोभि । आद्यमक्षरचतुष्टयं--
स्फारस्फुरत् प्रौढोल्लसत् वर्योदयत् स्पप्टस्फुरत् । अक्षरपञ्चक
विस्मेरशोभः प्रोल्लासिलक्ष्मी: उत्सपिशोभ: स्मेरप्ररोहत । अक्षरपञ्चकात्--
बहु दृढ गुरु जव वर स्फुर घन स्मित । अक्षरपञ्चकाग्रेऽक्षरत्रयं--
निबिड बहल रुचिर सुभग विमल प्रवर प्रकट प्रबल प्रचुर प्रसृत प्रसभ प्रभवत् विलसत् विकसत् विहसत् विचरत् प्रचरत् प्रसरत् । अन्त्याक्षरत्रयं---
प्रधान प्रशस्य प्रभाव विभाव प्रवीण शुभश्री: परश्रीः सुशोभः स्फुरश्री: प्रसर्पत् प्ररोहत् विसर्पत् विकासि विलासि विसपि विसारि । उपेन्द्रवज्रायां पूर्णाक्षरद्वयं--
लसत् मिलत् स्फुरत् ज्वलत् स्फुट ध्रुवम् । आद्यवर्णत्रयम्
प्रधान प्रशस्य प्रवीण धरीण प्रवेक विकासि विसपि विलासि । आद्यवर्णचतुष्टयं--
वरोदयत् स्फुरस्फुरत् परिस्फुरत लसद्विभा मिलत्प्रभा । आद्याक्षरपञ्चक
उदारसपत् उदञ्चितश्री: विसर्पिलक्ष्मी: विकासिशोभा वरप्ररोहत् । शेपमिन्द्रवज्रावत् । इन्द्र वज्रोपेन्द्र वज्राभ्यामपजातिएछन्दः ।
प्राज्य स्फार प्रौढ स्पष्ट चारु हारि तार सार हृद्य रम्य सपि स्मेर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org