________________
२८
काव्यकल्पलतावृत्तिः
यदुक्क्तं
-- अबह वर्थाऽपि मधुरा मनो हरति भारती ।
तमोनिचयसङकाशा मत्तनादेव कोकिला ॥
इति श्री जिन० छन्दः सिद्धिप्रताने छन्दोऽभ्यासस्तबको द्वितीयः ।। म.टी. परादिवद्यथा--'स्कन्धे विध्याद्रिबुद्ध्या निकषति महिषस्याहितो' इत्यत्र यतिर्भवतीति ।
पूर्वोत्तरेति-पूर्वोत्तरभागयोरेकस्मिन् अक्षरेऽवशिष्यमाणे सति, यतौ क्रियमाणायां स्वरस्य पूर्वादिवत् परादिवद भावौ न स्यातामिति तात्पर्यार्थः । उदाहरणानि यथा--अस्या 'बक्त्रा' इत्यत्र पूर्वपदसन्धौ प्ज इत्येकाक्षरमवशिष्यते । अतः एवंविधा यतिर्न कर्तव्या । तथा 'णेंदु' इत्यत्रोत्तरपदस्थेकारेण 'सन्धौदु' इत्येकाक्षरमवशिष्यते । एवमपि यतिन कर्तव्येति । तथा सन्धी व्यञ्जनं याद्यादेशोऽपि च परादिवत् स्यात्तत्र सन्धी व्यञ्जनं यथा 'हर हृषीकेश' इत्यत्र हृषीकशब्दस्यान्त्यककारईशशब्दस्यादिभूतो यतये भवति । याद्यादेशो यथा--'यशांस्यद्यापीत्यत्र, यशांसि इत्यत्र इवादेहस्वे स्वरे यवरलमिति सूत्रेण यकारे कृते, सकारः आद्यभागस्यादिभूतो यतये भवति तथा 'दूस्विविरले' त्यत्रापि च सम्बद्धानामिति तथा उत्तरपदेन नित्यसम्बद्धानां प्रादीनामेकाक्षरस्पशां पूर्वपदान्ते क्वचिद यतिर्न क्रियते । यथा-'दुःखं मे प्र' इत्यत्र यति
प्रादयो यथाप्रपरापसमत्ववनिदरभिव्यधिस्तदतिनिप्रतिपर्यपयः । उप आडिति-विंशतिरेष सखे ! उपसर्गगणः कथित: कविना ॥१।।
इति अनेकाक्षराणां तु प्रादीनां यतिः क्रियते । यथा-'हसितमिव परि' इत्यत्र तथा प्राकपदाश्रितकाक्षरस्य चादे: पूर्व यतिर्न भवति । यथा-'स्वादुः स्वच्छ'इत्यत्र । चकारसम्बन्धस्तु प्राक्तनेन स्वच्छमिति पदेनातो यतिभङ्गः। तथा प्राक पदसम्बद्धस्यानेकाक्षरस्य पूर्व यतिर्भवति । यथा मेघदूते 'मन्दायन्ते', इत्यत्र 'न खलु', इत्यनेकस्वरमव्ययं । तथा 'प्रत्यादेशा' दित्यत्रापि चेत्यप्यनेकस्वरमव्ययं । अतो नात्र यतिभङ्गः । इत्येवं सर्वत्रापि श्रुतिसुखावहा यति: कर्तव्या ॥छ।। इति श्रीतपागच्छाधिनायकपातसाहि श्रीअकब्बरप्रतिबोधदायक श्री शत्रुञ्जयतीर्थादिकरमुक्तिकारकभट्टारकपुरन्दर भट्टारक श्री ५ श्री हीरविजयसूरीश्वरशिष्यपण्डितशुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे छन्दःसिद्धिप्रतानप्राप्तछन्दोभ्यासस्तबकोद्योतको द्वितीयः प्रसरः ॥छ।। ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org