________________
काव्यकल्पलतावृत्तिः
क्वचित् स्वरः पूर्वभागस्यान्त्यावयवो भवति; क्वचित परादिवत परभागस्याद्यावयवो भवति । कोऽर्थः ? योऽयं पूर्वापरयोः स्वरयोरेकादेशः स्वरसन्धौ विधीयते, स क्वचित् पूर्वस्यान्तवद् भवति, क्वचित् परस्यादिवद्भवति । उभयादेशत्वाद् यथापित्रो: पुत्रः पितुश्च मातुश्च भवति । तत्र पूर्वान्तवद् यथा स्यादस्थानो इत्यत्र । तथा सूर्यशतके 'जम्भारातीभ कुम्भो, इत्यत्र । तथा भर्तृहरिशतके-'दिक्कालाद्यनवच्छिन्ना' इत्यत्र च यतिर्भवति, अस्या वक्त्राब्जमवजितपूर्णेन्दुशोभं विभाति इति ।
का.क.
स्थात्सन्धौ व्यञ्जनं याद्यादेशोऽपि च परादिवत् ।।३५।। सन्धौ व्यञ्जनं यथा-- शलं तुलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र
श्चक्रेणाकारि किन्ते--इति । याद्यादेशो यथा-- अच्छिन्नप्रसराणि नाथ भवतः पातालकुक्षौ यशां
स्यद्यापि क्षपयन्ति कोकिलकुलच्छायासपत्नं तमः । इति । विततघनतुषारक्षोदशुभ्रासु दुर्वास्वविरलपदमालामज्ज्वलामुल्लिखन्तः । इति।
सम्बन्धानामत्तरेण पदेनकाक्षरस्पृशाम् ।
प्रादीनां पूर्वपादान्ते यतिर्न क्रियते क्वचित् ।।३६।। यथा-- दुःखं मे प्रक्षिपति हृदये दु:सहस्त्वद्वियोग: ।
पूर्वपदसम्बद्धानामनेकाक्षराणां तु क्रियते । पूर्वपदसम्बद्धानां यथा
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अनेकाक्षराणां तु क्रियते, यथा-- दूरारूढप्रमोदं हसितमिव परस्पृष्टमासां सखीभिः ।इति।
प्राक्पदाश्रितकाक्षरं चादेः पूर्वं तु नो यतिः ॥३७।। यथा-- स्वाद् स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात् ।
प्राक्पदसम्बद्धस्यानेकाक्षरस्य तु पूर्वं भवति । यथा-- मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ।इति।
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।इत्यादि ।
इत्याद्यौचित्यतो ज्ञेया यतिः श्रुतिसुखा बुधैः ।।३८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org