________________
काव्यकल्पलतावृत्ति :
इति सर्वत्र पादान्ते यति, यथा- शाश्वतानन्दरूपायैति । विवेकविलासाद्यश्लोकेऽयं । नन्वेवमिति महादेवायेत्यत्र तु यकारस्याग्रेनद्वितीयपादस्यादिभूतत्वादुत्तरभागस्यैकाक्षरत्वेन पदान्ते यतिर्बाधितेति । एवं नानेयमित्यर्थः । त्र्यादीत्यत्र परविच्छिन्ने लुप्तविभक्तिके पदान्ते । यथा उत्तुङ्गेत्यत्र समासेन विभक्तिलोपाल्लुप्तविभक्तिके त्र्यक्षरविच्छिन्ने पदान्ते यतिरिति त्र्यक्षरविच्छिन्नेऽलुप्तविभक्तिके पदान्ते । यथा - लोलाक्षी इत्यत्र प्रथमाया विभक्तेविद्यमानत्वेनालुप्तविभक्तिके त्र्यक्षरविच्छिन्ने पदान्ते यति: । अत्रोत्तरार्द्ध यथा-
२६
बिम्बोष्ठी नरवरमुष्टिमेयमध्या ।
सा नारी भवतु मनःप्रहर्षिणी ते || १ ||
इदं वृत्तं छन्दोऽनुशासनगतौ ।
चतुरक्षरविच्छिन्ने लुप्तविभक्तिके पदान्ते यथा -- ' कश्चित् कान्ता' इत्यत्र । समासेन विभक्तेल पाल्लुप्तविभक्तिके चतुरक्षरविच्छिन्ने पदान्ते यतिः । इदमुदाहरणं प्रत्यन्तरगतं चतुरक्षरविच्छिन्नेऽलुप्तविभक्तिके पदान्ते । यथा - ' यक्षश्चक्रे' इत्यत्र स्याद्यन्तं त्याद्यन्तं त्याद्यन्तं च पदमितिवचनात् परोक्षाया विभक्तेविद्यमानत्वेनालुप्तविभक्तिके चतुरक्षरविच्छिन्ने पदान्ते यतिः । इदं वृत्तं मेघदूते ज्ञेयमिति । तथा यति कुर्यात् पदान्तस्थां पदमध्येऽपि कुत्रचिदिति व्याद्यक्षरविच्छिन्नपदमध्येऽपि कुत्रचिद यतिर्यथा
पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशावासीदस्पन्दनाश्चानुकृतिमरकते पद्मरागायमाणः ।
यः सोत्कर्षा विभूषां कुरुत इव कुलक्ष्माभूदीशस्य मेरो
रेनांस्यह्नाय दूरं गमयतु स गुरुः का द्रवे यद् विषो वः ||६||
अस्य व्याख्या । शमयतु कः स गुरुः ज्येष्ठो भ्राता, कस्य का द्रवेयद्विषः । कद्रोरिमे का द्रवे, यास्तान् द्वेष्टीत गुरुत्मान् तस्य गुरुररुणः । कानि ? एनांसि पापानि । केषां ? वः युष्माकं, अह्नाय क्षिप्रं । कथं ? दूरं प्रकृष्टं कुरुत इव । कां ? विभूषां अलङ्कृति । कस्य ? मेरो । कथम्भूतस्य ? कुलक्ष्माभृदीशस्य । कुलाश्च महीभृतः तेषां ईशस्तस्य । कथम्भूतां ? सोत्कर्षा । कथं कुरुते इव ? पर्याप्तं अत्यर्थं । कीदृशः पद्मरागायमाणः पद्यरागमणिवदाचरति । क्व ? तप्तचामीकरकटकतटे तप्तश्चासौ चामीकरस्य सुवर्णस्य कटकः सानु:, तस्य तट: वप्रः तस्मिन् । कथम्भूते श्लिष्टशीतेतरांशौ- श्लिष्ट : लग्नः शीतेतरांशु रुष्णांशुः यस्मिन् । पुनरपि कथम्भूते ?
आसीदस्पन्दनाश्वानुकृतिमरकते ।
आसीदन्तः ढोकमानाः स्पन्दनाश्वाः, रथश्च अश्वाश्च तेषामनुकृति प्रतिबिम्बं सैव मरकतता यस्मिन् सः, तस्मिन् । आदित्याश्वाः तप्तचामीकरकटकतटे मरकता विद्यन्ते । यथा-सुवर्णवलयपृष्ठे पद्यरागो विभूषां करोति, पृथ्वीधरस्य एवमरुणो विभूषां करोति । निवर्तमानो वः एनांसि अह्नाय दूरं गमयतु । ५६ ।
इति सूर्यशतकेऽत्र तप्तचामी इत्यत्र त्र्याद्यक्षरविच्छिन्नपदमध्ये यतिः । तथा 'कूजत्कोयष्टिकोला' इत्यत्र ; तथा ' हासो हस्ताग्रसंवा' इत्यत्र तथा 'वैरंचानां तथोच्चा' इत्यत्र तथा 'खड्गे पानीयमाल्हा' इत्यत्र च पूर्ववद् यतिरिति स्यात् । पूर्वोत्तरभागस्थैकाक्षरत्वे तु नो यतिरिति । पूर्वश्च उत्तरश्च पूर्वोत्तरौ, पूर्वोत्तरी च तौ भागौ च पूर्वोत्तरभागी । तत्र तिष्ठतीति पूर्वोत्तरभागस्थं । एकं च तदक्षरं च एकाक्षरं पूर्वोत्तरभागस्थं च तदेकाक्षरं च पूर्वोत्तरभागस्थैकाक्षरं तस्य भावस्तत्त्वं, तस्मिन् । पूर्वोत्तरभागस्थैकाक्षरत्वे कोऽर्थ ? पूर्वभागस्थैकाक्षरत्वे उत्तरभागस्थैकाक्षरत्वे च यतिर्न भवति । तत्र पूर्वभागस्यैकाक्षरत्वे यथा - 'एतस्यागं' इत्यत्र यतिभङ्गो ज्ञेयः । तथा 'एतासां ग' इत्यत्रापि च उत्तरभाग स्थंकाक्षरत्वे यथा सुरासुरशिरोनिघृष्टचरणं' त्यत्र यतिभङ्गः पादान्तेऽपि । पदमध्ये प्रायो यतिनं क्रियते यथा -- ' प्रणमत भवबन्धक्लेशनाशाय नारा' इत्यत्र । प्रायोग्रहणात् क्वचित् त्रियतेऽपि चेति । सन्धौ स्वरः क्वचित् पूर्वान्तवदित्यादि यतौ क्रियमाणायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org