________________
काव्यकल्पलतावृत्तिः पूर्वभागस्थैकाक्षरत्वे यथा-- एतस्या गण्डतलममलं गाहते चन्द्रकक्षाम् ।इति।
एतासां राजति सुमनसा दामकण्ठावलम्बि (म्बी) ।इति।
उत्तरभागस्थैकाक्षरत्वे यथा--
सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः ।इति।
पादान्ते पदमध्ये च न प्रायः क्रियते यतिः ।
यथा
प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम् ।इति।
सन्धौ स्वरः क्वचित्पूर्वान्तवत् क्वचित्परादिवत् ।।३४।।
पूर्वान्तरवद्यथास्यादस्थानोपगतयमुनासङगमेवाऽभिरामा ।
जम्भारातीकुम्भोद्भवामिव दधतः ।इति।
दिक्कालाधनवच्छिन्नाऽनन्तचिन्मात्रमूर्तये ।
स्वानुभूत्यैकमानाय नमः शान्ताय तेजसे ।।इति।।
परादिवद्यथा-- स्कन्धे विन्ध्यादिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षीत् ।इति ।
न पूर्वोत्तरभागस्थैकाक्षरे स्वरसन्धयः । म. टी. छन्दोभेदा वर्णिताः ।
अथ यतिप्रकारं प्रपञ्चयति। पादान्तेति-पादः छन्दश्चतुर्थांशस्तस्यान्तः पादान्तः । त्रीणि आदौ येषां तानि श्यादीनि, चतुःपञ्चादिसंख्याकानीत्यर्थः, त्र्यादीनि च तान्यक्षराणि च व्याद्यक्षराणि । अत्र तद्गुणसंविज्ञानो बहुव्रीहिस्तेन लम्बकर्णादिवत् यक्षरग्रहणं ज्ञेयमुपलक्षणत्वात् क्वचिद् द्वयक्षरग्रहणमपीति । तयोरुदाहरणे छन्दोऽनुशासने यथा-त्सौगः कुमार ललिताजगणसगणौ गुरुश्च । यथा-नरेन्द्रगणसेवावृत्तः प्रथितशक्तिः दधासि नृपते! त्वं कुमारललितानि ।।
तथा इदं वदनपद्मं प्रिये तव विभाति इह व्रजति मुग्धे मनो भ्रमरतां।
मेरुं इति-व्याद्यक्षरविच्छिन्नश्चासौ पदान्तश्च त्र्याद्यक्षरविच्छिन्नपदान्तः पादान्तश्च व्याद्यक्षरविच्छिन्नपदान्तश्च पादान्तत्र्याद्यक्षरविच्छिन्नपदान्तौ । तयोः पादान्तश्याद्यक्षरविच्छिन्नपदान्तयोरेतावता पादान्ते याद्यक्षरविच्छिन्नपदान्ते च यतिः क्रियते इत्यर्थः । कथम्भूतयोः ? लुप्तालुप्त विभक्तिकयोः-लुप्ता चालुप्ता च लुप्तालुप्ते, लुप्तालप्ते विभक्ती ययोस्तौ लुप्तालुप्तविभक्तिकौ, तयोर्लुप्तालुप्तविभक्त्तिकयोः । कोऽर्थः पादान्ते ? लुप्तालुप्तविभक्तिके त्र्याचक्षरविच्छन्नपदान्ते च लुप्तालप्तविभक्तिके इत्यर्थः । यमनं यतिविरामो विच्छेदो विश्राम इति यावत् । पुनः श्लोकाद्यर्द्ध समाससन्धी न भवतः । समासश्च सन्धिश्च समाससन्धी इति । यदुक्तं छन्दश्चूडामणौ--
यतिः सर्वत्र पादान्ते प्रलोकार्धे तु विशेषतः । गकारादि पदान्ते च लुप्तालुप्तविभक्तिके ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org