________________
२४
काव्यकल्पलतावृत्तिः
तल्लक्षण मगणसगणजगणसगणतगणसगणा द्वादशभिर्यतिरिति । मेघविस्फजितायां षडक्षराग्रे लघुप्रक्षेपे शोभा। तल्लक्षणं यगणमगणनगणतगणतगणा गुरुद्वयं च । पङिभः सप्तभिर्यतिरिति । काञ्च्यां सप्ताक्षराने लघुद्वयप्रक्षेपे चित्रमाला । तल्लक्षणं मगणरगणनगणतगणतगणा गुरुद्वयं च । सप्तभिः षड्भिर्यतिरिति । लक्ष्म्यां सप्ताक्षरान्तेन गणद्वयैकगुरुप्रक्षेपे स्रग्धरा । तल्लक्षणं मगणरगणभगणनगणा यगणत्रयं च । सप्तभिः सप्तभिर्यतिरिति । काञ्च्यां सप्ताक्षराग्रे नगणप्रक्षेपे स्रग्धरा । तल्लक्षणं प्रागुक्तं । स्रग्धराया आद्यगुरुस्थाने लघुद्वयप्रक्षेपे महास्रग्धरा। तल्लक्षणं सगणतगणतगणतगणसगणारगणद्वयं गरुश्च । अष्टभिस्सप्तभिर्यतिरिति । शार्दूलविक्रीडितस्यान्ते सगणलघगुरुप्रक्षेपे विभ्रमगतिस्तल्लक्षणं मगणसगणजगणसगणमगणतगणभगणरगणा इति । प्रमिताक्षरा सजससैरुदिता, तस्या आद्यपञ्चाक्षरः पर्यन्तक्षिप्तैः द्रुतविलम्बितं । तल्लक्षणं नगणो भगणद्वयं रगणश्चेति । स्रग्धराया आद्यसप्ताक्षरहरिण्या: प्रान्तसप्ताक्षरैर्जयाछन्दस्तल्लक्षणं मगणरगणरगणसगणा लघुगुरू चेति । स्रग्धराया आद्यसप्ताक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरोत्स्ना। तल्लक्षणं मगणरगणमगणयगणा लघुगुरू चेति । नगणद्वयमगणयगणत्रयाष्टसप्तयतिलक्षणाया मालिन्या आद्याष्टाक्षरः शार्दूलस्य प्रान्तसप्ताक्षरैः चन्द्रोद्योतं । तल्लक्षणं नगणद्वयमगणरगणरगणा इति । मालिन्या आद्याष्टाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैरुपमालिनी । तल्लक्षणं नगणद्वयतगणभगणरगणा इति । मन्दाक्रान्ताया आद्यदशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैर्मदनललिता। तल्लक्षणं मगणभगणनगणमगणनगणा गुरुश्वेति । शालिन्या आद्यचतुरक्षरैः शार्दूलस्य प्रान्तद्वादशाक्षरैः कामलता । तल्लक्षणं मगणरगणसगणतगणतगणा गुरुश्चेति । मन्दाक्रान्ताया आद्यदशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरैहारिणी। तल्लक्षणं मगणभगणनगणमगणयगणा लघुगुरू चेति । हरिण्या आद्यदशाक्षरैः शालिन्याः प्रान्तसप्ताक्षरैः पद्मं । तल्लक्षणं नगणसगणमगणनगणतगणा गुरुद्वयं चेति । हरिण्या आद्यदशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः रोहिणी । तल्लक्षणं मगणभगणनगणमगणयगणा लघुगुरू चेति । स्रग्धराया आद्यसप्ताक्षरै: शार्दूलस्य प्रान्तकदशाक्षरैः काञ्ची। तल्लक्षणं मगणरगणभगणयगणरगणरगणा इति । मगणभगणनगणयगणत्रयरूपायाः चन्द्रलेखाया आद्यैकादशाक्षरैः हरिण्याः प्रान्तसप्ताक्षरैः चलम् तल्लक्षणं मगणभगणनगणजगणभगणरगणा इति । चन्द्रलेखाया आद्यैकादशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः केसरं । तल्लक्षणं मगणभगणनगणयगणरगणरगणा इति । हरिण्या आद्य एकादशाक्षरैः शालिन्या: प्रान्तसप्ताक्षरैः चन्द्रमाला । तल्लक्षणं नगणसगणमगणरगणयगणा इति । यगणमगणनगणसगणभगणलघगरु षडैकादशयतिरूपाया: शिखरिण्या आद्यद्वादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैर्मकरन्दिका । तल्लक्षणं यगणमगणनगणसगणजगणजगणा गुरुश्चेति । शिखरिण्या आद्यद्वादशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरैः छाया । तल्लक्षणं यगणमगणनगणसगणतगणतगणा गुरुश्चेति । स्रग्धराया आद्यचतुर्दशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैः सुवदना । तल्लक्षणं मगणरगणभगणनगणयगणभगणा लघुगुरू चेति ।
का.क.
यति कुर्यात्पदान्तस्थां पदमध्येऽपि कुत्रचित् ।
यथा--
पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ । इत्यादि।
यथा वा--
कूजत्कोयष्टिकोलाहलमुखरभुवःप्रान्तकान्तारदेशाः ।इति ।
हासो हस्ताग्रसंवाहनमपि तुलिताद्रीन्द्रसारद्विषोऽस्य । इत्ति । वैरञ्चानां तथोच्चारितचतुरऋचा चाननानां चतुर्णाम् । इति । खड्गे पानीयमाह्रलादयति हि महिषं पक्षपाती पृषत्कः ॥इति ।।
स्यात्पूर्वोत्तरभागस्थैकाक्षरत्वे तु नो यतिः ॥३३॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International