________________
काव्यकल्पलतावृत्तिः
अलुप्तविभक्तिके यथा--
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । इति । त्र्याद्यक्षरविच्छिन्ने लुप्तालुप्तविभक्तिके यथा--
उत्तङगस्तनकलशद्वयानताङगी लोलाक्षी विपूलनितम्बशालिनी
यक्षश्चके जनकतनयास्नानपूण्योदकेष । इत्यादि ।। श्लोकार्थेन समासो यथा-- सुरासुरशिरोरत्नराजिनीराजितक्रमः ।
जयत्यसारसंसारपारदृश्वा जिनेश्वरः ।। न त्वेवम्सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी- ।
पिञ्जरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् ॥ अर्धन सन्धिर्यथा-- नमस्यामि सदोद्भुतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ।। म. टी. अथ छन्दोमर्माणि व्याख्यानपयन्नाह--
भद्रिकायामिति - रोनरौ भवति भद्रिका । तस्यां प्रान्ते लघुगुरू प्रयोज्यते तदा रथोद्धता नाम छन्दो भवति । इन्द्रवज्रोपेन्द्रवज्रयोः प्रान्ते गङ्गास्थाने राजिरा योज्यते तदेन्द्रवंशा वंशस्थे स्तः । सगणत्रयं लघुगुरू च यत्र भवन्ति सा विदुषी तस्या अन्त्याक्षरद्वयात् । प्राग लघुप्रक्षेपे तोटकछन्दो भवति । तगणो जगणो लघुगुरू च यत्र स्युस्तन्मोटनकं । तस्याद्यगणस्याद्यगुरुस्थाने लघुद्वयं प्रक्षिप्यते तदा तोटकं छन्दो भवति । रगणनगणरगणा लघुगुरू च यत्र स्युः सा रथोद्धता । तस्या आदौ गुरुः प्रक्षिप्यते तदा ललिता नाम छन्दो भवति । तल्लक्षणं तभजरगणा इति । वंशस्यछन्दसि सप्ताक्षराने लघुक्षेपे मञ्जभाषिणी भवति । रथोद्धतायामादौ लघुद्वयक्षेपे नन्दिनीछन्दो भवति। रथोद्धतालक्षणं प्राग्वत् । नन्दिनीलक्षणं यथा सगणजगणसगणजगणा गुरुश्चेति । रगणनगणभगणा गुरुद्वयं च यत्र भवन्ति सा स्वागता । तस्या आदौ लघुट्टयप्रक्षेपे कुटजं। तल्लक्षणं सगणजगणौ सगणौ गुरुश्चेति । वंशस्थे आदौ लघुक्षेपे सुदन्तं । तल्लक्षणं सगणयगणसगणजगणा गुरुश्चेति । इन्द्रवज्रायां आद्यचतुरक्षराग्रे तगणप्रक्षेपे वसन्ततिलका। तल्लक्षणं 'ख्याता वसन्ततिलका तभजा जगौ ग' इति । मगणतगणतगणा गुरुद्वयं च प्रथमं चतुर्भिस्तदन सप्तभिर्यतिरिति शालिनी। तस्याः प्रथमचतुरक्षरान्ते गुरुचतुष्टयं प्रक्षिप्यते तदा चित्रा। तल्लक्षणे प्रथमं मगणत्रयं तदनु यगणद्वयं चेति । वसन्ततिलकाया: प्रान्तगुरोः प्राक् लघुप्रक्षेपे मृदङ्गकं । तल्लक्षणं तु तगणभगणजगणजगणरगणा भवन्तीति । रसै रुद्रैः छिन्ना यमनसभलागः शिखरिणी। तस्याः प्रान्तगुरोः प्राग् लघुद्वयस्थाने गुरुरेकः प्रक्षिप्यते तदा जयानन्दं छन्दः । ततल्लक्षणं यगणमगणनगणसगणरगणा गुरुश्वेति । शालिन्यां प्रथमचतुरक्षराग्रे नगणसगणप्रक्षेपे मन्दाक्रान्ता । तल्लक्षणं मगणभगणनगणतगणतगणा गुरुद्वयं चेति । अश्वैर्लक्ष्मीर्मतेयं म्नौ ततौ गद्वयं चेत् । तस्यां प्रथमसप्ताक्षरप्रान्ते नगणगुरुप्रक्षेपे काञ्चीछन्दः । तल्लक्षणं मगणरगणभगणास्तदनु यगणत्रयं चेति । मन्दाक्रान्तायां प्रथमचतुरक्षराग्रे गुरुप्रक्षेपे कुसुमितलतावेल्लिताछन्दः । तल्लक्षणं मगणतगणनगणा यगणत्रयं चेति । मन्दाक्रान्तायां चतुरक्षराग्रे लघुप्रक्षेपे चन्द्रलेखा। तल्लक्षणं मगणभगणनगणा यगणत्रयं चेति। नसमरसलागः षड्वेदैर्यतौ हरिणी मता। तस्यामादौ लघुक्षेपे ललितं । तल्लक्षणं नगणनगणमगणतगणभगणरगणा इति । मन्दाक्रान्तायामादौ लघुगुरुप्रक्षेपे मेघविस्फजिता। तल्लक्षणं यगणमगणनगणसगणरगणरगणा गुरुश्च । प्रथमं षड्भिस्तदनु सप्तभिर्यतिरिति । शार्दूलविक्रीडिते आद्यगुरुस्थाने लघुद्वय प्रक्षेपे मत्तेभविक्रीडितं । तल्लक्षणं सगणरगणनगणमगणयगणा लघुगुरू चेति । शार्दूलविक्रीडितस्य प्रान्ते चतुरक्षरस्थाने सगणप्रक्षेपे शार्दूलललितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org