SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २२ पादान्ते यथा- भवतः भद्रिकायामन्ते लगाम्यां रथोद्धता । इन्द्रवज्रोपेन्द्रवज्रयोरन्त (न्त्य) गुरो: प्रागधिकलधुना इन्द्रावंशावंशस्थे । विदुष्यामन्त्यवर्णद्वयात्प्राक् लघुना मोटकम् । मोटनके पूर्वगुरुस्थाने लाभ्यां तोटकम् । रथोद्धायामादौ गुरुणा ललिता । वंशस्थे सप्ताक्षराग्रे लघुना मञ्जुभाषिणी । रथोद्धतायामादौ लाभ्यां नन्दिनी । स्वागतायां प्रथमं लाभ्यां कुटजम् । वंशस्थे पूर्वलघुना सुदन्तम् । इन्द्रवज्रायां चतुरक्षराग्रे नगणेन वसन्ततिलका । शालिन्यां चतुरक्षरान्ते चतुर्गुरुभिश्चित्रा । वसन्ततिलकायाः प्रान्तगुरोः प्राक्लघुना मृदङ्गकः । शिखरिण्यां प्रान्तगुरोः प्राक् लघुद्वयस्थाने गुरुणा जयानन्दम् । शालिन्यां चतुरक्षराग्रे नसाभ्यां मन्द्राक्रान्ता । लक्ष्भ्यां सप्ताक्षरान्ते नगाभ्यां काञ्ची । मन्द्राकान्तायां चतुरक्षराग्रे गुरुणा कुसुमितलतावेल्लिता । मन्द्राक्रान्तायां चतुरक्षराग्रे लघुना चन्द्रलेखा । हरिण्यामादौ लघुना ललितम् । मन्दाक्रान्तायामादौ लगाभ्यां मेघविस्फूर्जिता । शार्दूले आद्यगुरुस्थाने लाभ्यां मत्तेभविक्रीडितम् । शार्दूलस् प्रान्तचतुरक्षरस्थाने सगणेन शार्दूलललितम् । मेघविस्फूर्जितायां षडक्षराग्रे लघुना शोभा । काञ्च्यां सप्ताक्षराग्रे लाभ्यां चित्रमाला । लक्ष्म्यां सप्ताक्षरान्ते ननगैः स्रग्धरा । काञ्च्यां सप्ताक्षराग्रे नगणेन स्रग्धरायामाद्यगुरुस्थाने लाभ्यां महास्रग्धरा । शार्दूलविक्रीडितान्ते सलगैर्विभ्रमगतिः । प्रमिताक्षरायामाद्यपञ्चाक्षरैः पर्यन्तक्षिप्तं द्रुतविलम्बितम् । स्रग्धराया आद्य सप्ताक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैर्जया । स्रग्धराया आद्य सप्ताक्षरै: शार्दूलस्य प्रान्त सप्ताक्षर ज्योत्स्ना । मालिन्या आद्याष्टाक्षरे शार्दूलस्य प्रान्तसप्ताक्षरैश्चन्द्रोद्योतः । मालिन्या आद्याष्टाक्षरैर्हरिण्याः प्रान्त सप्ताक्षरैरुपमालिनी । मन्दाक्रान्ताया आद्यदशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैर्मदनललिता । शालिन्या आद्यचतुरक्षरैः शार्दूलस्य प्रान्तद्वादशाक्षरैः कोमललता । मन्दाक्रान्ताया आद्यदशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैर्हरिणी । हरिण्या आद्यदशाक्षरै: शालिन्याः प्रान्तसप्ताक्षरैः पद्मम् । हरिण्या आद्यदशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरै: रोहिणी । प्रान्तैकादशाक्षरैः काञ्ची । चन्द्रलेखाया आद्यैकादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैः चलम् । चन्द्रलेखायाः आद्यैकादशाक्षरे शार्दूलस्य प्रान्तसप्ताक्षरैः केसरम् । हरिण्या आद्यैकादशाक्षरै: शालिन्याः प्रान्त सप्ताक्षरैश्चन्द्रमाला । शिखरिण्या आद्यद्वादशाक्षरैः हरिण्याः प्रान्त सप्ताक्षर - र्मकरन्दिका । शिखरिण्या आद्यद्वादशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षर: छाया । स्रग्धरायाः आद्यचतुर्दशाक्षरैः शिखरिण्या प्रान्तषडक्षरैः सुवदना । इत्यादि स्वबुद्धयाप्यूह्यम् अथ यतिशिक्षामाह- न त्वेवम्- कियन्मात्रेषु सिद्धेषु छन्दः स्वभ्यासतः सुधीः । शेषाणां छन्दसां सिद्ध्यै छन्दोमर्माणि चिन्तयेत् ||३१|| शाश्वतानन्दरूपाय तमः स्तोमैकभास्वते । पादान्तत्र्याद्यक्ष रविच्छिन्नपदान्तयोर्यतिः क्रियते । लुप्तालुप्तविभक्तिकयोः पुनरर्थे समाससन्धी न ||३२|| लुप्तविभक्तिके यथा -- सर्वज्ञाय नमस्तस्मै कस्मैचित्परमात्मने ॥ नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे । इति ।। Jain Education International नमस्तुङ्गशिरश्चुम्बि चन्द्रचामरचारवे । काव्यकल्पलतावृत्तिः For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy