________________
काव्यकल्पलतावृत्तिः
पुनरुपायमाह--
तदन्यार्थपदैः स्वान्यश्लोकार्थपरिवर्तनात् ।
तत्रैव छन्दस्यभ्यस्येदथ छन्दोऽन्तरेष्वपि ।।३०।। स्वकृतं परकृतं वा श्लोक तदर्थे नवनवैः पदैस्तेनैव छन्दसा छन्दोऽन्तरै परिवर्तयेत । यथा तत्रैव छन्दसिप्रत्यथिपथिवीपाल तमोजालदिवाकरः ।
नीतिव्रततिपर्जन्यो राजते पथिवीपतिः ।। प्रत्यनीकावनीकान्तध्वान्त विध्वंसनांशुमान् ।
नयवल्लिवन्नाम्भोदः शीभते भूमिवल्लभः ।। प्रतिपक्षक्षमानाथतिमिरोन्माथभानुमान् ।
न्यायवल्लीपयोवाह : स विभाति भुवो विभुः ।। छन्दोऽन्तरैर्यथा-- प्रत्यथिपृथ्वीहृदयाधिनाथध्वान्तौधविध्वंसनवासरेशः ।।
सन्नीतिवल्लीवननीरवाहो विश्वम्भराया: दयितो विभाति ।। दुर्धरारिधरणीधवोद्धतध्वान्तमण्डलविखण्डनांशुमान् ।
नीतिवल्लिवननूतनाम्बुदो मेदिनीविभुरसौ विभासते ।। रारातिक्ष्मापजातिप्रतानध्वान्तस्तोमध्वंसनव्योमरत्नम् । .
न्यायोन्मीलद्वल्लिनव्याम्बुबाहो भभामिन्या वल्लभो भासतेऽसौ ।।
दप्यद्विधिधरणीदयितान्धकार प्राग्भारतारमददारुणतीक्ष्णभानुः ।
स न्यायवल्लिवननूतनतोयवाहो विभ्राजते वसुमतीयुवतीभुजङ्गः ।। मालिन्यामेव यथा-- अवनिधवकिरीटन्यस्तवैदूर्यरत्नातिमिषमधुपालीसेव्यपादारविन्दः ।
निखिलनृपतिचूडामाल्यसौरभ्यलुभ्यन्मुधुपयुवतिराजीनादवाचालपादः ।। अतुलधरणिपालश्रेणिवेणीप्रसूनप्रसृमरमकरन्दरस्नातपादारविन्दः ।
प्रणमदवनिनाथोत्तंसमाणिक्यमालाकिरणघुसृणनीरस्नातपादाब्जयुग्मः ॥ नमदखिलधरित्रीनाथचूडाकिरीटस्फटिककिरणमालासेव्यमानाङघ्रिपद्मः ।
निजचरणनखांशुव्याजकाश्मीरपकक्षणतिलकितनम्रीभूतभूपालभालः ॥ नतनपतिकिरीटस्फारमाणिक्यमालास्फुरदरुणमयूखद्योतमानाङघ्रिपीट: ।
प्रणतनपतिराजीमौलिकोटीरकोटीस्फटिकरुचिजलान्तः शोभमानाघ्रिपदमः ॥ एवं परकृतान्यपि काव्यानि पदान्तरैश्छन्दोऽन्तरैश्छन्दःसिद्धये परावर्तयेत् । अक्लेशेन छन्दसां ज्ञानोपायमाह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org