SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः रंकुकः मगविशेषः, कोक: चक्रवाकः, केकी मयूरः, कंक: पक्षिविशेषः, काकः प्रसिद्धः, करकः धनोपलः, ओक: गृहं, अंक: चिन्हं, केकरः काणः इत्यादिपरा। योध्या अजेया इत्थर्थः । का.क. करीराकुररङकुकाः काककेकिकककाककरकोङकोककेकराः ।। पुनरुपायान्तरमाह कथा पुरादिसर्वार्थदिनकृत्यादिवर्णनैः । लोकानां दृष्टचेष्टाभिः छन्दोऽभ्यासं समर्थयेत् ।।२९।। कथा रामायणभारतादयः । कथाभिर्यथा-- अस्त्ययोध्या पराऽयोध्या पूरी स्वर्गपूरीसमा । तस्यां दशरथो राजा समभूद् भूरिविक्रमः ।। तनयाः समजायन्त चत्वारस्तस्य भूपतेः । रामलक्ष्मणभरतशत्रुघ्ना इति नामभिः ॥ इत्यादि । पुरादिवर्णनैर्यथा-- पुरनपकुमारमन्त्रिप्रयाण रणदूतजलधिवनगिरयः । रविचन्द्रोदयपरिणयऋतुमधुजलकेलिरतविरहाः ।। ध्वस्तध्वान्तभरं रत्नवेश्मविस्मररश्मिभिः । राजधानी दिनस्येव तत्पुरं द्योतते सदा ॥ इत्यादि । स्थाली भाति विशालेयं सिद्धानपरिपूरिता । भूरिकपूरसौरभ्यरम्भोभिः शोभते घट: ॥ दिनकृत्यवर्णनैर्यथा-- सर्वार्थवर्णनैः ये केऽपि पदार्था दग्गोचरीभवन्ति ते वाः । यथाअयमुद्यमवान् ब्राह्म मुहर्ते निद्रयोज्झितः । सद्यः य्यां परित्यज्य चक्रे देवगुरुस्मृतिम् ।। नमस्कारपरावर्तपरायणमनाः क्षणम् । स्थित्वा बाह्यभुवं गत्वा देहचिन्तां विनिर्ममे ।। सदनं पुनरागत्य विदधे दन्तधावनम् । स्नानमाधाय शुद्धात्मानर्च देवं जगद्गुरुम् ।। इत्यादि । लोकानां या या चेष्टा दृश्यते सा सा काव्यबन्धेन कार्या । यथा-- पूष्पाणि पाणिदेशेऽसौ कृत्वा क्रीणाति कामुकः । ताम्बूलिकोऽत्र ताम्बूलमस्य पश्यायपत्यसो ।। मित्रेण सममालापमयमाचरयत्यहो । अयं हृष्टो हसत्थुच्चैरयं गायति गायनः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy