________________
काव्यकल्पलतावृत्तिः
अपभ्रंशभवैर्यथा-
तरुहे गिरिहे जोसो जिमच्छम्मुहु संकरु ।
शब्दभेदजैर्यथा-
यथा-
जहि तहिं सामियहो कहांहुं हुतउ आगदो ||
वर्णानेकस्य शब्दस्य सर्वान् नवनवस्वरैः ॥२७॥ संयोज्य जनिता ये ते शब्दाः स्युः शब्दभेदजाः । अनुप्रासेषु चित्रेषु सोपयोगा भवन्त्यमी ||२८||
कर: कुर: किरि: कीरः क्रूरः कुररकोरकौ । कुर्कुर: कर्करः कारा राका रङकोऽङ्कुरः करी ॥
रीरी रोरो रिराकार :
म. टी.
निरर्थकैरिति-अभिधेयवियुक्तैः, सार्थकैरिति अर्थसंयुक्तः, स्वस्वाभिधेयाभिधानसमर्थेः । लाटानुप्राससम्भवैरिति, आवृत्तिर्लाटानुप्रासे तात्पर्यमात्रभेदिनो नाम्नः परस्य चैकस्यानेकस्य वा सकृत्सकृत् कथनमिति । शेषं स्पष्टम् ।
१९
षड्भाषासम्भवैरिति–संस्कृतं प्रस्तुतं प्राकृतादि पञ्चभाषालक्षणं श्रीहेमचन्द्राचार्यविरचितप्राकृतवृत्तितो ज्ञात्वा तदुद्भवैः शब्दभेदजशब्दानां रीतिवृत्तावेव विवृता । एवमेतैः शब्दैः छन्दोबद्धैरभ्यस्येत् ।
Jain Education International
तत्र प्राकृतभवैर्यथा—संपयासरियेति सम्पत्, सरित् "स्त्रियामा दधृ विद्युतः” इति सूत्रेण (हे. प्रा. ८-१-१५) तकारस्याकारः यद्वृत्तिः । विद्युच्छब्दं वर्जयित्वा स्त्रियां वर्त्तमानस्य शब्दस्यान्यव्यञ्जनस्यात्वं भवति । संपयासरिया, पाडिवया । बहुलाधिकारात् अवर्णो य श्रुतिरिति आस्थाने या श्रुतिः प्रथमाऽसि " अन्त्यव्यञ्जनस्ये" ति सूत्रेण (हे. प्रा. ८-१-११) सिलोपे संपया, एवं रूपसिद्धिः सर्वत्रापि ज्ञेया । एतत् प्रथमा सि तदश्चतः सोऽक्लीवे' इति सूत्रेण (हे. प्रा. ८-३-८६) तकारस्य सकारः यद्वृत्तिः तद एतदश्च तकारस्य सोऽक्लीब सो भवति । पुरिसो सा मल्लिला एसोऽपि उ एसा सुद्धा अन्त्यव्यञ्जनस्येति तलोपः । आत् इति आवंतता अन्त्यव्यञ्जनस्येति सिलोपे । एसा दीहाउ दीर्घायुः, धणुहं धनुः, तणू तनुः, वीसा विंशतिः, तीसा त्रिंशत्, कुदो कुतः, किंपि किमपि, केसुअं किंशुकं । किंस्यं किं श्रुतं ? तहा तथा । सौरसेनीभवैरिति कुदो कुतः, अंदेउरं अन्तःपुरं । दावतावत् पदिञ्ञा प्रतिज्ञा, पुरवं पूर्व, कथं कथं नाधो नाथः, भविय भूत्वा, भोण भूत्वा भविस्सदि करिस्सदि भविष्यति करिष्यति, 'तो दो नादौ सौरसेन्यामिति' सूत्रेण (हे. प्रा. ८-४-२६० ) तस्य दो भवति मज्ञर्ण इति णत्वं च भवति । मागधीभवैरिति - एसे एषः सुपुलिसे सुपुरुषः, विज्जाहले विद्याधरः, जाणदि जानाति, सुच्छिदे सुस्थितः, कञ्ञगाचलणं कन्यकावरणं, पञ्ञा प्राज्ञा, पञ्जाहं पुण्याहं, पुञ्ञवज्जिदे पुण्यवर्जिते । पुञ्जले इति पाठे तु पुण्यप्राञ्जल इत्यर्थः, 'त्यण्यजञ्ञ ञ्जा' इति सूत्रेण नाणं न्यण्यज्ञञ्ज इत्येषां द्विरुक्तो ञ्ञो भवति । मागध्यां पैशाचीभवैरिति कुतुंबकं कुटुंबकं, हितयकं हृदयकं, जारिसो यादृशः, तारिसी तादृशः, गुनो गुणः, भारिया भार्या, कसटं कष्टं, सक्को शक्रः, संखो शंख:, गंतून गत्वा पव्वती पार्वती । पैशाच्यां णकारस्य नकारो भवति, शेषं पूर्ववत् । अपभ्रंशभवैरिति तरुहे तरवः गिरिहे गिरयः, जोयः सोस, जिम यथा, छम्मुहु षण्मुखः, संकरु शंकरः, जहिं यथा, तहिं तथा, सामियहो स्वामिनः, कहां कुतः, हुंतउ भवन्, आगदो आगतः ।
शब्दभेदजैरिति-करः हस्तः, कूरः ओदनः, किरि: शूकरः, क्रूरः दुष्टः कुररः पक्षिविशेषः, कोरकः, कोरकः कुड्मलः, कुर्कुरः श्वानः, कर्करः पाषाणादि शकलं, कारा गुप्तिगृहं, राका पूर्णिमा, रंको दीन: अंकुरः, अंकूर इत्यपि शब्दोऽस्ति । करी हस्ती, रीरी पित्तलं, रोरः दारिद्र्यवान्, अरिर्वैरी, आकार: आकृति:, करीरः घटः वृक्षविशेषश्च, आकरः खनिः,
For Private & Personal Use Only
www.jainelibrary.org