________________
काव्यकल्पलतावृत्तिः
गुण एव श्रीर्गुणश्रीः प्रास्थावधारणापदः ६ । प्रकारोऽमीषु सर्वेष विशिष्ट: कर्मधारयः ।।५।। द्विगुद्विधैकवद्भावी त्रिशङ्ग पञ्चपूलिकाः । तथैवानेकवद्भावी त्रिजगन्ति चतुर्दश ॥६।। प्रथमादिविभक्तीनां नामतः सप्तधा मतः । नज तत्पुरुषेण सहाष्टधा तत्पुरुषः खलु ॥७॥ प्राग्भेदः पूर्वकायस्य पूर्वकाय इति क्रमात् । द्वितीया तत्पुरुषाद्याः पुनरब्राह्मणोऽष्टमः ॥८॥ द्विपदो १ थ बहुपदः २ संख्योत्तरपदस्तथा ३ । संख्योभयपद ४ श्चैव सह पूर्वपदो५ऽपि च ॥९॥ व्यतिहार ६ श्चेति षोढा बहुव्रीहिर्बुधैर्मतः । आरूढवानरो वक्षः१क्ष्मापाः खड़गाजितश्रियः२ ॥१०॥ व्यतिहार ५ श्चेति षोढा बहुब्रीहिर्बुधैर्मतः । रुद्रा उपदशा ३ द्वित्रा ४ सम्लोन्मूलितस्तक: ५ । केशाकेशि रणं ६ जातमित्युदाहृतयः क्रमात् ॥११॥ द्वन्द्वश्चतुर्विधश्चार्थे स च चार्थश्चतुर्विधः । समुच्चयो १ न्वाचयश्च समाहारे ३ तरे तरौ ४ ॥१२।। आद्य क्रियाद्यपदानामन्योन्यमविरोधिनाम् । भवेत् संकल्पनामात्रं यथा पंक्ति च वक्ति च ।।१३।। चशब्दमन्तरेणापि भेदोऽयं जायते यथा । षट्पदी अहरहर्नयमानो गामश्वं पुरुष पशुम् ।। वैवस्वतो न तृप्यति सुराया इव दुर्मदी १ ।।१४।। प्राग्वाक्ये यत्र मुख्यत्वं गौणतोत्तरवाक्यगा । सोन्वाच यो यथा भिक्षामटगां चानयदिवजः ।।१५।।
समाहारः स विज्ञेयो यत्रैकत्वं नपुंसकम् । यथा वाग्दषदं पीठछत्रोपानहमेव च ३ ॥१६॥
यत्र द्वित्वं च त्रित्वं च स भवेदितरेतरः । देवदत्तयज्ञदत्तौ वटप्लक्षधवा यथा ४ ।।१७।। यस्याव्ययकारकाद्यं वाच्यं पूर्वपदं भवेत् । सोऽव्ययीभावो यथा स्यादुपकुम्भमधिक्त्रिच (यम् ) ॥१८॥ चतुर्धा च समासः स्यान्नित्यानित्या च लुग्लुगौ । नित्य: कृष्णसर्पो व्यासः पाराशरस्त्वनित्यकः ॥१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org