________________
काव्यकल्पलतावृत्तिः
प्रविशन्तीति--कुन्ताः प्रविशन्तीत्यादावप्युपचारमात्रकार्थेभ्यः द्योतकवाचकलिङ्गार्थेभ्यः प्रथमा । अव्ययेभ्योऽपि 'कुन्तोपलक्षिताः पुरुषाः प्रविशन्ती' त्यर्थः । हे शिष्य, इत्यत्र 'आमन्त्रणे' इति कारकसूत्रेण (हे.व्या. २-२-३२) प्रथमा भवति । अदेतस्यमोलुंक इत्यनेन (हे.व्या. २,१,४४) सेर्लुक । मातरं मातुरित्यत्र स्मृत्यर्थदयेशं इति कारकसूत्रेण (हे.व्या. २,२.११) वा विकल्पेन कर्मत्वम् । तेन पक्षे शेषे इत्यनेन षष्ठी । अध्येति ध्यायति उत्कण्ठते इति स्मृत्यर्थाः । एवं मातरं मातुरध्येतीत्यादावपि ज्ञेयम् । अथ त्यादिविभक्तिविशेषो यथा--
वर्तमाने वर्तमाना विध्यादौ सप्तमी पूनः । पञ्चम्यनुमतौ कालेऽतीते ह्यस्तनिका पुनः ॥१।। अद्यतनी परोक्षा च पुनः क्रियातिपत्तिका । क्रियातिपतते भूते प्रोक्ता काले भविष्यति ।।२।। भविष्यंती श्वस्तनी वाशीराशीर्वचने सति । एवं विभक्तय: कालत्रययोगाद् दशोदिताः ॥३।। विभक्तीनां च पूर्वाद्धं परस्मैपदमुच्यते । उत्तरार्द्ध तु सर्वासामात्मनेपदमित्यपि ॥४।। मध्ये द्वयोस्त्रिकं पूर्व प्रथमः पुरुषो भवेत् । द्वितीयं मध्यमः प्रोक्तः तृतीयं तूत्तमो मतः ।।५।। त्रिकमध्ये पूर्व वचनमेकवचनं मतम् ।
द्वितीयं द्विवचनं तृतीयं बहुवचनं मतम् ।।६।। इत्यादि ।
स्म पुरेति भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्म पुराद्योर्युगपद्योगे हि ‘स्मे च वर्तमाना' इति (हे.व्या ५.२.१६) कृदन्तसूत्रेण परत्वादवर्तमानैव स्यादेवम् । इति ह स्म कथयतीत्यादावपि वसन्तीत्यत्र केवलपुरादियोगे, वसन्तीत्यत्र ऊषुरित्यत्र, पुरा वसन्नित्यत्र, पुरा वात्सुरित्यत्र च । परोक्षे चापरोक्षे च भूते पुरादियोगतः वर्तमाना परोक्षा ह्यस्तनी अद्यतनी च भवन्ति । पुरादयो यथा-पुरा १ शश्वत् २ तदा ३ यावत् ४ अथ ५ इतिहाः इति । पुरा भुक्ते यावद्भुक्ते इत्यादिषु पुरा यावतोर्योगे 'वर्तमाने' ति (हे.व्या. ३.३.६) सूत्रेणाद्यतने परत्वादनद्यतनेऽपि भविष्यत्यर्थे वर्तमानेति समाससंश्रितैरिति ।
समासः कर्मधारयद्विगू तत्पुरुषस्तथा । बहुव्रीहिश्च द्वन्द्वश्चाव्ययीभावश्च षण्मताः ।।१।। पदप्राग्भावतः कर्मधारयः षड़विधो यथा । नीलोत्पलादिकः पूर्वपदस्थितविशेषणः ।।२।। शीतोष्णादिपदद्वन्द्वपरस्थितविशेषणः । शस्त्री श्यामादिकः पूर्वपदसंस्थोपमः३ पुनः ।। ३ ।। पुरुषव्याघ्रप्रभृतिपुरःपदगतोपमः ४ । गुण इव धीर्गुणधी: प्रास्थसम्भावनापदः ५ ।। ४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org