________________
काव्यकल्पलतावृत्तिः
कारकाणि कर्ता १ कर्म २ करण ३ संप्रदानकम् । अपादान ५ माधारः ६ षट् स्युः सम्बन्धश्च सप्तमः ।।१।। उक्तानक्ततया द्वेधा कारकणि भवन्ति षट । उक्तेषु प्रथमैव स्यादनुक्तेषु क्रमादिमाः ॥२।। कर्मणि द्वितीया कर्तृ करणयोः तृतीयिका । सम्प्रदाने चतुर्थी स्यादपादाने तु पञ्चमी ॥३॥ आधारे सप्तमी सम्बन्धे षष्ठीति विभक्तयः । इह संक्षेपतः प्रोक्ता वक्ष्यन्तेऽग्रे सविस्तराः ।।४।। कूर्वः कूर्मो वयं कार्य कुरुते कार्यमुत्तमम् ।
कुति कुर्वते देवाः कुरुषे त्वं रुषोज्झितः ।। कुर्बाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे वयम् ।। एवं सर्वकालविभक्तिषु । कर्तृ कर्मादिशब्दैर्यथा-- कटं करोति दत्तोऽयं तृणैर्दत्ते द्विजाय गाम् ।
वृक्षात्पतन्ति पर्णानि राज्ञो धर्मे दृढा मतिः ।। स्यादिविभक्तिविशेषजैर्यथा-- प्रविशन्ति पुरे कुन्ता हे शिष्य पठ सर्वदा ।
मातरं मातुरस्मार्षीत् मातुरध्येति मातरम् ।। त्यादिविभक्तिविशेषजैर्यथा-- स्म पुराधीयते तेनेति ह स्म कथयत्यदः ।
वसन्तीह पुरा छात्रा राघवो भाषते तदा ।। ऊषुरत्र पुरा छात्रा बभाषे राघवस्तदा ।
पुराऽवसन्निह च्छात्रास्तदाऽभाषत राघवः ।। पुराऽवात्सुरिह च्छात्रास्तदाऽभाषिष्ट राघवः ।
यावद्भुङक्ते पुरा भुक्ते पुरा श्वो भुङक्त इत्यपि ।। समाससंश्रितैर्यथा- नीलोत्पलं जरद्धस्ती । समाससंश्रितैर्यथा-- नीलोत्पलं जरद्धस्ती केवलानं नवोदकम् ।
पञ्चपूली सुखप्राप्तो गोहितं ग्रामनिर्गतः ।। आरूढवानरो वक्षः पलाशधवपिप्पला: ।
पीठच्छत्रोपानहं स्यादपकुम्भमधिस्त्रि च ।। नाममालाशब्देर्यथा--
धात्री वसुन्धरा भमिः काननं विपिनं वनम् । म. टी. अस्य विस्तारो वाक्यप्रकाशादिष ज्ञेयः। कटं करोतीत्यत्र दत्तोऽयमिति प्रथमा १, कटमिति द्वितीया २,
तृणैरिति तृतीया ३, द्विजायेति चतुर्थी ४, वृक्षादीति पञ्चमी ५, राज्ञ इति षष्ठी ६, धर्मे इति सप्तमी । Jain Education International For Private & Personal Use Only
www.jainelibrary.org