________________
१४
काव्यकल्पलतावृत्तिः
आर्या संस्कृते प्राकृते तु गाथेति कथ्यते । अत्र 'नष्टोद्दिष्टादिकं, ग्रन्यान्तरादवसेयम् । ग्रन्थगौरवभयान्नेह लिखितमिति । अथार्यासु षड्विंशतिभेदभिन्नासु गुरुलघुसंख्या यथा--
तीसं वन्ना सत्तावीसं दीहा यति त्ति अद्दीहा ।
जा एसा आइल्ला नायव्वा होइ एयासु ।।१।। व्या. या त्रिंशद्वर्णात्मिका सप्तविंशतिदीर्घा यदीर्घा त्रिलघुका च भवति । एषा आदिल्ला प्रथमार्या ज्ञातव्या भवति । एतासू षडविंशतिभेदास्विति । अत्र गुरुलध्वक्षरांकानयनाय कारणमाह--
वन्नानि राइं दुगुणा लहुआइ जुआ कहंति लहुसंख ।
बन्नविसुद्धा मत्ता फुडं पयासंति गुरुसंखं ॥२।। व्या. इष्टार्यावर्णा, निरादय आदिवर्णरहिताः, त्रिंशद्वर्ण रहिता इत्यर्थः । द्विगुणाः प्रथमार्यालघुयुक्ताः । त्रिलघुयक्ताश्च यावन्तो वर्णा भवन्ति, तावन्त इष्टार्यायां लघवः । वर्ण विशुद्धामिष्टार्या । लघुवर्णरहितां अन्यां शेषां गुरुसंख्यां बधा: प्रकाशयन्तीति षविशत्यार्याभेदनामान्याह--
लच्छी १ कित्ती २ कंती ३ गंगा ४ गौरी ५ तरंगिणी ६ तारा ७ ।
सिद्धी ८ रिद्धी ९ बुद्धी १० गंधव्वा ११ किन्नरा १२ जुन्ना १३ ।।३।। माला १४ वाला १५ हंसी १६ वीणा १७ वाणी १८ कुरंगिणी १९ खोणी २० ।
लीला २१ ललिया २२ रंभा २३ बंमाणी २४ भागही २५ मेहा २६ ।४।। यन्त्रकस्थापना यथा ॥छ।।
चतुष्केत्यादि । हैमव्याकरणप्रथमपादपञ्चकस्य चतुष्केति संज्ञा ज्ञेया चतुष्कतद्धिताख्यातकृतां शब्दैरेतद्वृत्त्युदाहरणैः । स्यादीति-प्रथमादिसप्त विभक्तीनामेकविंशतिवचनैः साधितनामभिः गाथा लक्ष्मी की क ग गौ त ता सि ऋ बु गं कि जी नाम मर्व ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ १३
२७ २६ २५ २४ २३ २२ २१ २० १९ १८ १७ १६ ४२
M
मा. वा. हं बी. वा. कु. खो. भी. ल. रंभा बं. मा. मि. चपला १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५६ ५६ १३ १२ ११ १० ९ ८ ७ ६ ५ ४ ३ २ १ १ २९ ३१ ३३ ३५ ३७ ३९ ४१ ४३ ४५ ४७ ४९ ५१ ५३ ५५
त्यादीति-वर्तमानादिशविभक्तीनां प्रत्येकमष्टादशवचनैः साधितधातुभिः कतकर्मादिकारकोत्था ये विशेषा, स्तदुद्भवैश्च सित्यादीति । स्यादिविभक्तिविशेषा-स्त्यादिविभक्तिविशेषाश्च ये तदुद्भवः स्यादिशब्दाः कर्तृकर्मादिति विशेषशब्दाः स्यादिविभक्तिविशेषाः चतुष्कोक्तत्वाच्चतुष्कशब्दा ज्ञेयाः । तथा त्यादिशब्दास्त्यादिविभक्तिविशेषशब्दाश्चाख्यातोक्तत्वादाख्यातशब्दा ज्ञेयाः । परं विनेयानां क्रमपरिज्ञानाय पृथगुक्ताः कर्तृकर्मादिविशेषा यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org