SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः त्यादिशल्यैर्यथा-- करोति कुरुतो नित्यं ते कुर्वन्ति करोषि किम् । कुरुथः कुरुथ स्पष्ट करोमि वितनोमि च ।। अथार्यालक्षणमाइ । यस्थामिति यस्यां पूर्वार्द्ध सप्तचतुष्कलगणा: गुरुश्च भवन्ति, इमां बधा: आर्यां जगः । एतन्नियतं लक्षणम् । अत्रापवादो यथा--इहार्यायां विषमे प्रथमततीयम. टी. पञ्चमसप्तमरूपे गणे जगणो न भवति तथा, षष्टो जगणो भवत्यथवा नलघुको नश्च लघुकश्च नलघुको, एतावता नयनलो भवतीत्यर्थः । अथ यतिमाह--षष्ठे गणेम्ले नयनले सति द्वितीयलादारभ्य यत्पदघटना भवति, षष्ठनलगणस्थ प्रथमे ले यतिरित्यर्थः । तथा च पुनः सप्तमे म्ले सति मुखलात् पदघटना भवति षष्ठगणान्ते यतिर्भवतीत्यर्थः । अपराः चरमेर्द्ध पञ्चमके गणे ग्ले सति तस्मान्मुखलादाद्यलघो: पदघटना भवति, चतुर्थगणान्ते यतिरित्यर्थः । इह द्वितीयेऽर्द्ध द्वितीयदले षष्ठो गणो लः एक एव लघुर्भवति । शेषं पूर्वार्द्धवत् । अत्रार्द्धग्रहणात् पादव्यवस्था नास्ति । तेन स्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥१॥ इत्यादौ गणत्रयस्यान्ते गुरुत्वं न भवति । प्रथमे गणे चत्वारो विकल्पा यथा-- द्वितीये गणे पञ्च चतुर्थे पञ्च द्वितीये गणे पञ्च । ६६ । ॥६ ॥ ६॥ ॥॥ तृतीये गणे चत्वारः । ६६ । ॥६ ॥ चतुर्थे पञ्च । ६६ । ॥ ६६॥ ६॥ ॥॥ | पञ्चमे चत्वारः । ६६ । ॥ ६६॥ ॥॥ | षष्ठे द्वी भेदो ॥ ॥॥ सप्तमे चत्वारः । ६६ / ६ ॥ ॥ पञ्चमे चत्वारः षष्ठे द्वौ भेदी सप्तमे चत्वारः अष्टमे गुरुरेक एव । अन्योन्यताडनायां उभयदलविकल्पताडनायामष्टौ कोटयः । एकोनविंशतिर्लक्षाविंशतिः सहस्राणि आर्याभेदसंख्या ८१९२००० । यदाह-- जगविहीना विषमे चत्वारः पञ्च युजि चतुर्मात्राः । द्वौ षष्ठाविति जगणास्तद्घातात् प्रथमदल २२८०० संख्या ॥१॥ एवमप ६४०० रार्द्धसंख्या षष्ठे स्थाल्लनि चैकस्मिन् । आर्यासंख्योभयदलसंख्याघातादविनिर्दिष्टा ॥२॥ उदाहरणम्-- उपदिश्यते तव हितं यदि वांछसि कूशलमात्मनो नित्यम् । मा जातु दुर्जनजनेष्वार्याचरितं प्रपद्यस्व ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy