SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १२ का. क. अथ आर्यालक्षणम्- यस्यां सप्त चतुष्कलगणा गुरुश्च जगणों न विषमे स्यात् । जः षष्ठोऽथ नलघुको पूर्वार्द्ध जगुरिमामार्याम् ||२३|| षष्ठे द्वितीयलात् परकेन्ले मुखलाच्च यदिह पदघटना । अपराधे पञ्चमके मुखलादिह भवति षष्ठो लः ||२४|| अन्यच्छन्दो मत्कृतच्छन्दोरत्नावल्यां ज्ञेयमिति । पुनश्छन्दोऽभ्यासोपायानाह-चतुष्कतद्विताख्यात कृत्स्यादित्यादिसम्भवैः । कर्तृकर्मादिसित्यादिविभक्त्युत्थविशेषजैः ।। २५॥ समाससंश्रितैर्नाममालोत्थैर्योगिकैरपि । निरर्थं रथं संयुक्तैर्लाटानुप्राससंयुतैः षड्भाषासम्भवैः शब्दैरभ्यसेच्छस्यभेदजैः । ।।२७।। शब्दैरिति सर्वत्र सम्बन्धनीयम् । चतुष्कशब्दैर्यथा-austi सागता नारी दधीदं हि नदीयते । मधूदकं वधूढा सा तवेहा सेयमङ्गना ।। तद्धितशब्देर्यथा- आख्यातशब्दैर्यथा- कृत् शब्दैर्यथा स्यादिशब्देर्यथा- Jain Education International vadā इदानीमधुना सद्यः कुत्र यंत्र यथा तथा । सर्वथा सर्वदा धीमान् बहुधाऽनेकधा कथम् ।। करोति तनुते वेत्ति वक्ति जानाति पृच्छति । भुक्ते भक्षयति प्साति स्तौति रौति न वाति च ॥ अलकरिष्णुवन्दारुभासुरस्पृहया लवः । संविधाय विधातुं स भेजिवान्कृतवानपि ॥ हंसो हंसौ शुभौ हंसा हंस हंसौ च हंसकान् । हंसेन वरहंसाभ्यां हंस हंसाय शोभिने || हंसाभ्यां राजहंसेभ्यो हंसात् हंसस्य हंसयोः । हंसानां प्रवरे हंसे हंसयोहंसकेष्वपि ॥ बाला बाले वरा बाला बालां बाले मनोरमे । बाला बालया बालाभ्यां बालाभिः प्रतिवासरम् ।। बालाय वरबालाभ्यां बालाभ्यस्तदनन्तरम् । बालाया वरबालाभ्यां बालाभ्योऽपि निरन्तरम् ।। बालाया बालयोनित्यं बालानां विभ्रमस्पृशाम् । बालायां बालयोरेव बालासु सकलास्वपि ।। For Private & Personal Use Only काव्यकल्पलतावृत्तिः www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy