________________
काव्यकल्पलतावृत्तिः
पञ्चदशाक्षरम्--
वसुयतिरियमुक्ता मालिनी नौ मयौ यः । सप्तदशाक्षरम्--
गुहास्यविश्रान्तियमनसभलागः शिखरिणी । यतिसुकृताजसौ जसयलाश्च पृथ्वी गुरुः ।
मन्दाक्रान्ता मभनततगा गोयतिवेदषड्भिः । नसमरसलागः षड्वेदैर्यतौ हरिणी मता ।। एकोनविंशत्यक्षरन्--
आदित्यैर्यदि मः सजौ सततगा: शार्दूलविक्रीडितम् । एकविंशत्यक्षरम्--
विज्ञेया स्रग्धराऽसौ मरभनययया वाहवाहैर्यतिश्चेत् । अर्धसमच्छन्द:--
अयुजि ननरया भवन्ति पादे युजि च नजौ जरगाश्च पुष्पिताग्रा। विषमे ससजा गुरू समे स्युः । सभरा यो यदि मालभारिणी सा। एतावौपच्छन्दसिकभेदौ। विषमे ससजा गुरुः समे सभराल्गौ तु तदा प्रबोधिता। अयं वैतालीयभेदः । म. टी. अथ छन्दोभ्यामविधिमाह--
अत्र सर्वेषां छन्दसामुदाहरणानि परिमलाद ज्ञेयानि । इन्द्रवज्रोपेन्द्रवज्रयोरिति-अन्योन्याहिमीलने उपजातिस्तस्याः प्रस्तारे चतुर्दश भेदा भवन्ति
155 I SISI SSI SIIS ISIS ISS I SSS sssss। 5 55515 ।।। ।5।। ।। ।। ।।। स्थापना यथा--
अत्रेन्द्रवज्रायाः प्रथमपादो वक्ररेखारूपः; उपेन्द्रवजायाश्च त्रयः पादा ऋजुरेखा:रूपाः । अनया रीत्या सर्वेऽपि भेदा ज्ञेयाः । अत्राद्यभेदोदाहरणं यथा--
प्रायः पुमांसोऽभिनवार्थलाभे गुणोज्ज्वलेवप्य कृतादराः सः ।
अवाप्य कुन्दं मधुपो हि जज्ञे गतोपजाति (धं ?) मणाभिलाषः ।।१।। एवमन्यभेदोदाहरणात्यपि ज्ञेयानि । तथेन्द्रवंशावंशस्थयोरपि योगे चतुर्दश भेदा भवन्ति तेऽप्युक्तप्रकारेणैव ज्ञेयाः । इत्थमन्यास्वपि कासुचिज्जातिषु परस्परं मिलितासु उपजातयो भवन्ति । तद्भेदास्तु यथादर्शनं ज्ञेया इति ।
रान्नरौ लघुगुरू रथोद्धता इति । वैतालीये अपरान्तिका नाम छन्दः । अत्र राजिरा नयनराजिरा लघुगुरू च भवन्ति । वेदैरिति-चतुभिः छिन्ना चतुर्थाक्षरान्ते यतिरित्यर्थः । एवं सर्वत्र ज्ञेयम् ।
उत्थापनी नाम छन्दः, तत्र तीर्थेशभावत जयन्तगणा लघुगुरू च भवन्ति । अम्बुधिसैरिति--चतुभिः सकारैर्दोधकम् । मात्रासमकमित्यपि नाम त्रिच्छेदा त्रिभिर्यतिरिति । अश्वैरिति--सप्तभिर्यतिः । वसुपतिरिति-अष्टभिर्यतिः । गुहास्यैरिति-कार्तिकेयवदनसंख्याभिर्विश्रान्तिः, षड्भिर्यतिरित्यर्थः। वेदषड्भिरिति--प्रथमं चतुर्भिः पश्चात् षड्भियतिरिति । आदित्यैरिति-द्वादशभिर्यतिः । वाहवाहैरिति--प्रथमं सप्तभिस्तदनु पुनरपि सप्तभिर्यतिः ।
अत्र षड्विंशत्यक्षरपर्यन्तछन्दांसि बहुष्वादशेषु न दृश्यन्तेऽनुपयोगित्वादस्माभिरपि न लिखितानीति ज्ञेयम् ।
अर्द्धसमच्छन्द इति---प्रथमतृतीयपादयोद्वितीयचतुर्थपादयोश्च तुल्यता यत्र भवति तत् अर्धसमं छन्दः । अयुजि विषमपादे युजि समपादे इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org