SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १० ॥ १.२ ॥ अथ छन्दोऽभ्यासविधिः । अआइई उऊ अंअः ह्रस्वदीर्घव्यवस्थया । काद्येकव्यञ्जनोक्तेन छन्दसां परिपाटिका ॥२२॥ अआ प्रथमे पादे, इई द्वित्तीये पादे उऊ तृतीये पादे, अनुस्वाराकारौ चतुर्थे पादे; लघुस्थाने ह्रस्वो, गुरुस्थाने दीर्घ - इत्यनया व्यवस्थया ककारादिहकारान्तानां मध्यादेकव्यञ्जनोच्चारितेन पद्येन पुनः पुनः परिवर्तनं क्रियते । एकाक्षरादि सप्ताक्षरान्तं छन्दः कविभिर्बाहुल्येनाऽप्रयुक्तत्वान्नात्र लिखितम् । अष्टाक्षरं पथ्यावस्त्रं यथा- काकाकाकाककाकाका कीकीकीकीकिकीकिकी कूकू कूकू कुककू कू कंकककककककम् ।। एवं सर्व व्यञ्जनैः । रो नरौ भवति भद्रिका रेण जेन रेण कामिनी । दशाक्षरम्- वेदत्ता मभसगयुवत्ता ( ता ? ) । मान्न्यौ गो यदि पणवो बाणैः । एकादशाक्षरम् स्यादिन्द्रवज्रा ततजागुरू चेत् । काकाककाकाकाकककाककाका कीकीकीकी किकिकीकिकीकी । कककुकक कुकुक कुकू कू कंककककककककककम् || कूकूकुकूक कुकुकुकुकूकू कंकंकककककककककम् ॥ एवं सर्वत्र छन्दः सु ज्ञेयम् । उपेन्द्रवज्रा जतजागयुग्मम् । इन्द्रवज्रोपेन्द्रवज्रयोरन्योन्याङघ्रिमेलने उपजातिर्भवेत्, इन्द्रवंशावंशस्थयोरपि । रान्नरौ लघुगुरू रथोद्धता । स्वागता तु रनभाद्गुरुयुग्मम् । वेदैछिन्ना शालिनी मात्तत्तौ गौ । उत्थापिनी तभजला गयुता । तानां त्रयं गौ लयग्रहिसंज्ञम् । दोधकमुक्तमिदं भभभाद्गौ । ससजालगुरू विदुषी मता । तो जलगुरू यदि मोटनकम् । म्भौ न्लौग्वेदैर्भ्रमरविलसितम् । द्वादशाक्षरम्- काव्यल्यपलतावृत्तिः ख्यातेन्द्रवंशा ततजैरसंयुतैः । वदन्ति वंशस्थमिदं जतौजरौ । द्रुतविलम्बितमत्र नभौभरी । इह तोटकमम्बुधिरैः प्रथितम् । चतुभिर्यकारैर्भुजङ्गप्रयातम् । सम्मत्ता सम्विणी रैश्चतुभिर्युता । त्भौ त्रौ यदा तु ललिताभवेत्तदा । प्रमिताक्षरा सगणतो जससैः । परिकीर्तितं केकिरवं सयौ स्यौ । Jain Education International त्रयोदशाक्षरम्- त्रिच्छेदा मनजरगैः प्रहर्षिणीयम् । जती सजौ गो भवति मञ्जुभाषिणी । सजसा जगी यदि तदा तु नन्दिनी । सजसाः सगौ यदि तदा कुटजं स्यात् । गदितं सुदन्तं सयसा जगौ यदा । चतुर्दशाक्षरम्- ख्याता वसन्ततिलका तभजा जगौ गः । अश्वैर्लक्ष्मीर्मतेयं भ्रौ ततौ गद्वयञ्चेत् । For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy